कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 365, कुल 876 में से
संदर्भ में पढ़ें१२४ कथासरित्सागर
तस्य च स्कन्धमारुह्य निर्यद्वक्त्रामलाधिपः ।
आनेतुं राजपुत्रीं तामुत्पत्य नभसा ययौ ॥ १६५ ॥
विदूषकोऽपि तत्सर्वं दृष्ट्वा तत्र व्यचिन्तयत् ।
कथं राजसुतानेन हन्यत मयि जीवति ॥ १६६ ॥
इहैव तावत्तिष्ठामि यावदायास्यसौ शठः ।
इत्यालोच्य स तत्रैव तस्थौ छन्नो विदूषकः ॥ १६७॥
प्रव्राजकश्च गत्वैव वातायनपथेन सः ।
प्रविश्यान्तःपुरं प्राप सुप्तां निशि नृपात्मजाम् ॥ १६८ ॥
आययौ च गृहीत्वा तां गगनेन तमोमयः ।
कान्तिप्रकाशितदिशं राहुः शशिकलामिव ॥ १६९ ॥
हा तात हाम्बति च तां क्रन्दन्तीं कन्यकां वहन् ।
तत्रैव देवीभवनं सोऽन्तरिक्षादवातरत् ॥ १७० ॥
प्रविवेश च तत्कालं वेतालं प्रविमुच्य सः ।
कन्यारत्नं तदादाय देवीगर्भगृहान्तरम् ॥ १७१ ॥
सत्र यावन्निहन्तुं तां राजपुत्रीमियेष सः ।
तावदाकृष्टखड्गोऽत्र प्रविवेश विदूषकः ॥ १७२ ॥
आः पाप ! मालतीपुष्पमश्मना हन्तुमीहसे ।
यदस्यामाकृतौ शस्त्रं व्यापारयितुमिच्छसि ॥ १७३॥
इत्युक्त्वाकृष्य केशेषु शिरस्तस्य विवस्वतः ।
प्रव्राजकस्य चिच्छेद खड्गेन स विदूषकः ॥ १७४॥
आश्वासयामास च तां राजपुत्रीं भयाकुलाम् ।
प्रविशन्तीमिवाङ्गानि किञ्चित्प्रत्यभिजानतीम् ॥ १७५॥
कथमन्तःपुरं राज्ञो राजपुत्रीमिमामिह ।
नययमिति तत्कालमसौ धीरो व्यचिन्तयत् ॥ १७६॥
भो विदूषक ! शृण्वेतद्योऽस्य प्रव्राट् त्वया हतः ।
महानेतस्य वेतालः सिद्धोऽभूत्सर्पपास्तथा ॥ १७७॥
ततोऽस्य पृथ्वाराज्ये च वाञ्छा राजात्मजासु च ।
उदपद्यत तेनायमेव मूढोऽद्यवञ्चितः ॥ १७८ ॥
तद्गृहाणसवीमांस्त्व सर्पपान्वीर येन ते ।
इमामेकां निशामद्य भविष्यत्यम्बरे गतिः ॥ १७९॥