कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 359, कुल 876 में से
संदर्भ में पढ़ें११८ कथासरित्सागर
अकरोदा न्दिनान्तं च देवी तावन्महोत्सवम् ।
यावन्नगरलोकोऽभूत्सर्वः सिन्दूरपिञ्जरः ॥१२२॥
अन्येद्युः स तमादित्यसेनो राजा विद्रूपकम् ।
मठादानाययामाम तस्मात् सर्वैर्द्विजैः सह ॥१२३॥
प्रस्थाप्य रात्रिद्वैसान्ते ददौ तस्मै च सत्कृतम् ।
विद्रूपकाय ग्रामाणां सहस्रमुपकारिणे ॥१२४॥
पौरोहित्ये च चक्रे तं प्रदत्तच्छत्रवाहनम् ।
विप्रं श्शतशो नृपतिः कौतुकालोकितो जनैः ॥१२५॥
एवं सर्वैव सामन्ततुल्यः सोऽभूद् विद्रूपकः ।
माषा हि नाम जायन्त महत्भूयकृतिः कुतः ॥१२६॥
यांश्च प्राप नृपाद् ग्रामांस्तान्सर्वान् स महाशयः ।
तमठाद्यर्थिमिर्विप्रैः समं साधारणान् व्यधात् ॥१२७॥
तस्थौ च सेवमानस्तं राजानं च तदाश्रितः ।
मुञ्चानश्च सहान्यैस्तद्ब्राह्मणैर्ग्राससञ्चयम् ॥१२८॥
काले गच्छति चान्ये ते सर्वे प्राधान्यमिच्छवः ।
भवं तं गणयामासुर्द्विजा धनमदोद्धताः ॥१२९॥
विमिश्रैः सप्त१ सख्या तैरकस्थानाश्रयैरपि ।
संख्यातीतरबाध्यन्त ग्रामा दुष्टैर्ग्रहैरिव ॥१३०॥
उज्झद्वत्सलेषु तेष्वासीदुदासीनो विद्रूपकः ।
अल्पभावपु धीराणामवज्ञैव हि शोभते ॥१३१॥
एकदा कलहासक्तान् बुद्ध्वा तानभ्युपाययौ ।
कश्चित्पञ्चवक्रधरो नाम विप्रः प्रकृतिनिष्ठुरः ॥१३२॥
परार्थस्यायवावद्युः काणोऽप्यम्लानदर्सनः ।
कुब्जोऽपि वाचि सुस्पष्टो विप्रस्तानित्यभाषत ॥१३३॥
प्राप्ता भिक्षाचरर्भूत्वा भवद्भिः श्रीरियं शठाः ।
तन्नाशयथ किं ग्रामानन्योन्यमसहष्णवः ॥१३४॥
विद्रूपकस्य दापोऽयं यन यूयमुपेक्षिताः ।
तत्तत्सङ्घमचिरात्पुनर्भिक्षां भ्रमिष्यथ ॥१३५॥
१ सप्तभिर्युहैरेक स्थानं स्थितैः प्रलयो भवतीति सिद्धान्तविरोधीतम् ।