सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 357, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 357

५१६ कथासरित्सागर
निर्ययुस्ते च ससक्तबर्हा ल्लोरनिट्टराः ।
भयकाश्यपकोपानां गृहं हि च्छान्दसा द्विजाः ॥१०८॥
विदूषक-ब्राह्मणस्य कथा
रटत्सु तेषु तत्रेको निर्जगाम ततो मठात् ।
विदूषकाख्यो गुणवाधुर्यं सत्त्ववतां द्विजः ॥१०९॥
यो युवा बाहुशाली च तपसाराध्य पावकम् ।
प्राप खड्गोत्तमं सम्माद्ययातमात्रोपगामिनम् ॥११० ॥
स दृष्ट्वा तं निशि प्राप्तं धीरो भव्याकृतिं नृपम् ।
प्रच्छन्नः कोऽपि देवोऽयमिति दध्यौ विदूषकः ॥१११॥
विधूय विप्रांश्चान्यांस्तान्स सर्वाननुचिताशयः ।
नृपं प्रवेशयामास मठान्तः प्रश्रयानतः ॥११२॥
विश्रान्तस्य च दासीभिर्धौताङ्घ्रेरजसः क्षणात् ।
आहारं कल्पयामास राज्ञस्तस्य निजोचितम् ॥११३॥
स चापनीतपर्याणं तदीयं तुरगोत्तमम् ।
यवसादिप्रदानेन चकार विगतश्रमम् ॥११४॥
रक्षाम्यहं शरीरं ते तत्सुखं स्वपिहि प्रभो !
इत्युवाच च तं श्रान्तमास्तीर्णशयनं नृपम् ॥११५॥
सुप्ते च तस्मिन्द्वारस्थो जागरामास स द्विजः ।
चिन्तितोपस्थिताग्नेयखड्गहस्तोऽखिलां निशाम् ॥११६॥
प्रातश्च तस्य नृपतेः प्रबुद्धस्यैव स स्वयम् ।
अमुक्त एव तुरगं सज्जीचक्रे विदूषकः ॥११७॥
राजापि स तमामन्त्र्य समारुह्य च वाजिनम् ।
विवेशोज्जयिनीं दूराद्दृष्टो हर्षाकुलैर्जनैः ॥११८॥
प्रविष्टमभिजग्मुस्तं सर्वाः प्रकृतयः क्षणात् ।
तदागमनानन्दरूसातङ्करुत्कारजा ॥११९॥
आययौ राजभवनं स राजा सचिवान्वितः ।
ययौ तेजस्वती देव्या हृदयान्य महाज्वरः ॥१२० ॥
वाताहुतोत्सवाक्षिप्तपताकांशु कपङ्क्तिभि ।
उत्सारिता इवाभून्नगर्यास्तत्क्षणं शुषः ॥१२१॥