सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 35, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 35

कथासरित्सागर
शिवपार्वतीसंवादः
अस्ति किन्नर-गन्धर्व-विद्याधर-निषेवितः।
चक्रवर्ती गिरीन्द्राणां हिमवानिति विश्रुतः ॥१३॥
माहात्म्यमियतीं भूमिमारूढं मन्ये भूभृताम्।
यद्भवानी सुताभावं त्रिजगज्जननी गता ॥१४॥
उत्तरं यस्य शिखरं कैलासाख्यो महागिरिः।
योजनानां सहस्राणि बहून्याक्रम्य तिष्ठति ॥१५॥
मन्दरो मथितेऽप्यम्भौ न सुधा-सिततां गतः।
अहं त्वमलादिति या हसतीव स्वकान्तिभिः ॥१६॥
धराधरगुरुस्तत्र निवसन्त्यम्बिकासखः।
गजैर्विद्याधरैः सिद्धैः सेव्यमानो महेश्वरः ॥१७॥
पिङ्गोत्तुङ्ग-जटाजूट-गतो यस्याश्नुते नवः।
सन्ध्यापिञ्जर-पूर्वाद्रि शृङ्ग-सङ्ग-सुखं शशी ॥१८॥
येनान्धकासुरपतेरेकस्यार्पयता हृदि।
शूलं त्रिजगतोऽप्यस्य हृद्व्यथैचित्रमुद्धतम् ॥१९॥
चूडामणिषु यत्पादनखाग्रप्रतिबिम्बिताः।
प्रसादप्राप्तचन्द्राली इव भान्ति सुरासुराः ॥२०॥
स कदाचित्समुत्पन्न-विश्रम्भा रहसि प्रिया।
स्तुतिभिस्तोषयामास भवानीपतिमीश्वरम् ॥२१॥
तस्याः स्तुतिवशात्तुष्टस्तामङ्कमधिरोप्य सः।
किं ते प्रियं करोमीति बभाषे शशिशेखरः ॥२२॥
ततः प्रोवाच गिरिजा प्रसन्नोऽसि यदि प्रभो।
रम्यां काञ्चित्कथां ब्रूहि देवाद्य मम नूतनाम् ॥२३॥
भूतं भवद् भविष्यद् वा किं तत्स्याज्जगति प्रिये।
भवती यन्न जानीयादिति शर्वोऽप्युवाच ताम् ॥२४॥
ततः सा वल्लभा तस्य निर्बन्धमकरोत्प्रभोः।
प्रियप्रणयहुंकारि यतो मानवतीमनः ॥२५॥
ततस्तच्चाटुमुग्धैश्च तत्प्रभावानियम्यनाम्।
तस्याः स्वस्यां कथा मेव शिवः सम्प्रत्यवर्णयत् ॥२६॥
अस्ति मामीशितुं पूर्वं ब्रह्मा नारायणस्तथा।
महीं भ्रमन्तो हिमवत्पादमूलमथापतुः ॥२७॥