सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 345, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 345

३४ कथासरित्सागर
दिष्ट्या न रुज्जिता देवी सपत्न्या सदृशीतया ।
इति पद्मावतीं वीक्ष्य वयस्या जगदेऽन्यया ॥२०॥
नूनं हरमुरारिभ्यां न दृष्टं रूपमेतयोः ।
किमन्यथा भजेतां तौ बहुमानमुमाभ्रियोः ॥२१॥
इत्यूचुरापरास्तं द्वे दृष्ट्वा देव्यौ परस्परम् ।
क्षिपन्त्यः प्रमदोत्फुल्ललोचनेन्दीवरस्रजः ॥२२॥
एवं वत्सेश्वरः कुर्वञ्जनतानयनोत्सवम् ।
स्वमन्दिरं सदेवीकः प्राविशत्कृतमङ्गलः ॥२३॥
प्रभाते याम्यसरसो याम्येरिन्दूदये सभा ।
तत्कालं तस्य सा कापि शोभामूद्राजवेश्मनः ॥२४॥
क्षणादपूरि सामन्तसङ्घोपायनैश्च तत् ।
सूर्य्यमद्भिर्बहिर्बाधेय-भूपालोपायनागमम् ॥२५॥
समान्य राजलोकं च वत्सराजः कृतोत्सवः ।
चित्तं सयजनस्येव विवेशान्तःपुरं ततः ॥२६॥
देव्योर्मध्यस्थितस्तत्र रतिप्रीत्योरिव स्मरः ।
पानादिलीलया राजा दिनशेषं निनाय सः ॥२७॥
अपरेद्युश्च तस्यैको नृपस्यास्थानवर्त्तिनः ।
मन्त्रिणां सन्निधौ विप्रो द्वारि चक्रन्द कश्चन ॥२८॥
गोपालककथा
अद्याह्यास्मदटव्यां मे पापैर्गोपालकैः प्रभो ।
पुत्रस्य चरणोच्छेदो विहितः कारणं विना ॥२९॥
तच्छ्रुत्वा तत्क्षणं विप्रान्वष्टभ्यानाय्य भूपतिः ।
गोपालकांस्त पप्रच्छ ततस्तेऽप्येवमब्रुवन् ॥३०॥
देव ! गोपालका भूत्वा क्रीडामो विजने वयम् ।
तत्रैको देवसेनाख्यो मध्ये गोपालकोऽस्ति नः ॥३१॥
एकवृक्षे च सोऽटव्यामुपविष्टः शिलासने ।
राजा युष्माकमस्तीति बबरत्यस्माननुशास्ति च ॥३२॥
अस्मन्मध्ये च केनापि तस्याज्ञा न विलङ्घ्यते ।
एवं गोपालकोऽरण्ये राज्यं स कुरुते प्रभो ॥३३॥
अथ चैतस्य विप्रस्य तनयस्तेन वर्त्मना ।
गच्छन् गोपालराजस्य प्रणामं तस्य नाकरोत् ॥३४॥
मा गास्त्वमप्रणम्येति राजादेशेन जल्पतः ।
अस्मान्विधूय सोऽप्यासीच्छासितोऽपि हसन्वटुः ॥३५॥