कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 33, कुल 876 में से
संदर्भ में पढ़ेंकथासरित्सागर
प्रथमस्तरङ्गः
मङ्गलाचरणम्
धियं दिशतु वः शम्भोः श्यामः कण्ठो मनोभुवः।
अङ्कस्थपार्वतीदृष्टिपाशैरिव विवेष्टितः ॥ १ ॥
सन्ध्यानृत्तोत्सवे तारा करेणोद्धूय बिम्बजित्।
सीत्कारसीकरैरन्यां कल्पयन्निव पातु वः ॥ २ ॥
प्रणम्य वाचं निश्शेषपदार्थोद्योतदीपिकाम्।
बृहत्कथायाः सारस्य सङ्ग्रहं रचयाम्यहम् ॥ ३ ॥
प्रस्तावना
आद्यमत्र कथापीठं कथामुखमतः परम्।
ततो लावानको नाम तृतीयो लम्बको भवेत् ॥ ४ ॥
नरवाहनदत्तस्य जननं च ततः परम्।
स्याच्चतुर्दारिकाख्यश्च ततो मदनमञ्चुका ॥ ५ ॥
ततो रत्नप्रभा नाम लम्बकः सप्तमो भवेत्।
सूर्यप्रभाभिधानश्च लम्बकः स्यादथाष्टमः ॥ ६ ॥
अलङ्कारवती चाथ ततः शक्तियशा भवेत्।
वेलालम्बकसञ्ज्ञश्च भवेदेकादशस्ततः ॥ ७ ॥
शशाङ्कवत्यपि तथा ततः स्यान्मदिरावती।
महाभिषेकानुगतस्ततः स्यात्पञ्चलम्बकः ॥ ८ ॥
ततः सुरतमञ्जर्य्यथ पद्मावती भवेत्।
ततो विषमशीलस्य लम्बकोऽष्टादशो भवेत् ॥ ९ ॥
यथामूलं तथैवैतन्न मनागप्यतिक्रमः।
ग्रन्थविस्तरसङ्क्षेपमात्रं भाषा च भिद्यते ॥ १० ॥
औचित्यान्वयरक्षा च यथाशक्ति विधीयते।
कथारसाविघातेन काव्यांशस्य च योजना ॥ ११ ॥
वैदग्ध्यख्यातिलोभाय मम नैवायमुद्यमः।
किन्तु नानाकथा-जाल-स्मृति-सौकर्यं सिद्ध्ये ॥ १२ ॥