सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 309, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 309

२१८ कथासरित्सागर

ततो लग्नं विनिर्दिश्य तूर्ण योगन्धरायणः ।
तस्मै मगधराजाय प्रतिदूतं व्यसर्जयत् ॥६२॥
त्वदिच्छाङ्गीकृतास्माभिस्तदितः सप्तमे दिने ।
पद्मावतीविवाहाय वत्सेशोऽप्यागमिष्यति ॥६३॥
शीघ्रं वासवदत्तां च येनासौ विस्मरिष्यति ।
इति चास्मै महामन्त्री सन्दिदेश स भूभृते ॥६४॥
प्रतिदूतः स गत्वा च यथासन्दिष्टमभ्यधात् ।
ततो मगधराजाय स चाप्यभिननन्द तम् ॥६५॥
ततः स दुहितृस्नेहनिजच्छाभिवर्धितम् ।
विवाहोत्सव-सम्भारं चकार मगधेश्वरः ॥६६॥
सा चाभीष्टवरश्रुत्या मुदं पद्मावती ययौ ।
प्राप वासवदत्ता च तद्वार्ताश्रवणान्त्सुदम् ॥६७॥
सा मार्त्ता क्षणमागत्य तस्या वैवर्ण्यादायिनी ।
प्रच्छन्नवासवैरूप्यसाहाय्यनमिवार्करोत् ॥६८॥
दृप्तं मित्रीकृतं दातुनं च भर्त्तान्यया त्वयि ।
वसन्तकोऽतिरित्यस्याः सखीव विदधे धृतिम् ॥६९॥
अथासन्नविवाहायाः पद्मावत्या मनस्विनी ।
अम्लानमालातिलको दिव्यो भूयश्चकार सा ॥७०॥
ततो वत्सेश्वरस्तत्र सम्प्राप्ते सप्तमेऽहनि ।
ससैन्यो मन्त्रिभिः साकं परिणेतुं किलाययौ ॥७१॥
मनसापि तदुद्योगे विरष्टौ स कथं स्पृशन् ।
देवीं लभेय तामेवमित्याशा न भवेद्यदि ॥७२॥
प्रत्युद्ययौ च तं सद्यः सानन्दो मगधेश्वरः ।
प्रदानेनोत्सवं चन्द्रमुदयस्त्यमिवाम्बुधिः ॥७३॥
विवेशाथ स वत्सेशो मगधाधिपतेः पुरम् ।
समन्तात्पौरलोकस्य मानसं च महोत्सवः ॥७४॥
विरहक्षामवपुषं मनःसम्मोहदायिनम् ।
ददृशुस्तत्र नार्य्यस्तं रतिहीनमिव स्मरम् ॥७५॥
प्रविश्य मगधेशस्य वत्सेशोऽप्यथ मन्दिरम् ।
सभाषं पतिवत्नीभिः कौतुकागारमाम्यौ ॥७६॥