कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 305, कुल 876 में से
संदर्भ में पढ़ेंअथ वासवदत्तास्याश्चक्रे देव्याः प्रसङ्गतः।
अम्लानमालातिलको वत्सेशात्पूर्वशिक्षितौ ॥३१॥
तद्भूषितां च दृष्ट्वा तां माता पद्मावतीं रहः।
पप्रच्छ मालातिलको केनेमौ निर्मिताविति ॥३२॥
ऊचे पद्मावती चेनामत्र मन्मन्दिरे स्थिता।
लाविडावन्तिका नाम तया कृतमिदं मम ॥३३॥
तच्छ्रुत्वा सा बभाषे तां मातापुत्रि ! न सा हि सा।
मानुषी कापि देवी सा यस्या विज्ञानमीदृशम् ॥३४॥
देवता मुनयश्चापि वञ्चनार्थं सतां गृहं।
तिष्ठन्त्येव सथा चैतामत्र पुत्रि ! कथां शृणु ॥३५॥
कुन्तीकथा
बभूव कुन्तिभोजाख्यो राजा तस्यापि वेश्मनि।
आगत्य तस्थौ दुर्वासा वञ्चनैकरसो मुनिः ॥३६॥
स तस्य परिचर्यार्थं राजा कुन्तीं निजां सुताम्।
आदिवेश मुनिं सापि यत्नेनोपचचार तम् ॥३७॥
एकदा स मुनिः कुन्तीं जिज्ञासुः सन्नभाषत।
परमान्नं पचे शीघ्रं स्नात्वा यावदुपाम्यहम् ॥३८॥
इत्युक्त्वा त्वरितं स्नात्वा स परिभोक्तुमाययौ।
कुन्ती तदन्नपूर्णां च तस्मै पात्रीमढौकयत् ॥३९॥
अतितप्तेन चान्नेन ज्वलन्तीमिव तां मुनिः।
मत्वा हस्तप्रहायोग्यां कृत्वा पृष्ठे धृतं वदौ ॥४०॥
सापि पृष्ठेन तां पात्रीं दधौ सम्बाधया मुनेः।
ततः स बुभुजे स्वच्छं कुन्तीपृष्ठं त्वदह्यत ॥४१॥
दह्यमानापि गाढं सा यत्तस्याप्यविकारिणी।
तेन तुष्टो मुनिर्मुक्त्वा ददौ तस्यास्ततो वरम् ॥४२॥
इत्यासीत्स मुनिस्तत्र तथैषावन्तिकापि ते।
तद्भावेन स्थिता कापि तत्त्वमाराधयत्यिमाम् ॥४३॥
इति मातुर्मुखाच्छ्रुत्वा पद्मावत्यन्यरूपिणीम्।
तत्र वासवदत्तां तां सुतरां बहुमन्यत ॥४४॥
सापि वासवदत्तात्र निजनामविनाकृता।
तस्थौ विधुरबिच्छाया निशीथेनेव पद्मिनी ॥४५॥