कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 299, कुल 876 में से
संदर्भ में पढ़ें५५८ कथासरित्सागर
तौ चासुरौ जगृहतुस्तां दृष्ट्वैवान्तिकागताम्।
उभावप्युभयोर्बाह्वो सुन्दरीं काममोहितौ ॥१३९॥
परस्परविरोधेन हरन्तौ तां च तत्क्षणम्।
प्रवृत्तसम्प्रहारत्वादुद्वावपि क्षयमीयतुः ॥१४०॥
एवं स्त्रीनाम विषयो निदानं कस्य नापदाम्।
युष्माकं द्रौपदी चैका बहूनामिह वल्लभा ॥१४१॥
तन्निमित्तं समयः संरक्षण्यो भवतां किल।
मद्वाक्यादयमस्तस्या समयश्चास्तु वः सदा ॥१४२॥
ज्येष्ठांतिकगता माता मन्तव्य कनीयसा।
ज्येष्ठेन च स्नुषा ज्ञेया कनिष्ठान्तिकवर्तिनी ॥१४३॥
इत्येतन्मद्वचो राजंस्तव ते प्रपितामहाः।
तथेति प्रत्यपद्यन्त कल्याणकृतबुद्धयः ॥१४४॥
ते च मे सुहृदोऽभूवस्तत्प्रीत्या चाहमागतः।
त्वां द्रष्टुमिह वत्सेश¹ तदिदं शृणु वच्मि ते ॥१४५॥
यद्यत्मे कुरु वाक्यं कुर्यांस्त्वं मन्त्रिणां सह।
अचिरेण च कालेन महतीमृद्धिमाप्स्यसि ॥१४६॥
किंचित्काल च दुःखं तन्भविष्यति न च त्वया।
तत्रातिमोहः कर्त्तव्यः सुखान्तं भविता हि तत् ॥१४७॥
सम्यगेवमभिधाय तत्क्षणं वत्सराजमुवयस्य भाविषु।
र्धर्मिसुचनविधौ विशारदो नारदो मुनिरखशन ययौ ॥१४८॥
सर्वे च तस्य वचसा मुनिपुङ्गवस्य
योगन्धरायणमुखा सचिवास्त्ववस्ते।
सम्भाष्य सिद्धयुवयमारमभिकीर्षितस्य
सम्पादनाय सुतरां जगृहु प्रयत्नम् ॥१४९॥
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे
लावानक लम्बके प्रथमस्तरङ्गः