कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 295, कुल 876 में से
संदर्भ में पढ़ें२६४ कथासरित्सागर
स च राजहितैषी सन् दुःखावहमपि स्वसुः ।
गोपालकोऽनुमन् तन्वत्सन्त्य हि सतां वचः ॥१११॥
सर्वमेतत्सुविहितं देवी दग्धामवत्य तु ।
प्राणैस्त्यजन् मयं रक्ष्यो वत्सेश इति चिन्यताम् ॥११२॥
सदुपायान्सामग्रीसम्भवं किल सत्यपि ।
गुरुममङ्ग हि मन्त्रस्य विनिपातप्रतिक्रिया ॥११३॥
इति भूयोऽपि तत्कालमुक्ते तत्र रूमण्वता ।
उवाचालोचिताशेषकार्यो यौगन्धरायणः ॥११४॥
नास्त्यत्र चिन्ता यद्राजपुत्री गोपालकस्य सा ।
कनीयसी स्वसा देवी प्राणेभ्योऽप्यधिका प्रिया ॥११५॥
एतस्य पाल्पमालोक्य शोकं वत्सेश्वरस्तदा ।
जीवत्येवाभिहेवेति मत्वा धैर्यमवाप्स्यति ॥११६॥
अपि चोत्तमसत्त्वोऽयं शीघ्रं च परिणीयते ।
पद्मावती ततो देवी दर्श्यत षाचिरादिति ॥११७॥
एवमेतद् विनिश्चित्य ततो यौगन्धरायणः ।
गोपालको रूमण्वाञ्च ततो मन्त्रमिति व्यधुः ॥११८॥
युक्त्या लावाणकं याम सह वेष्या नृपेण च ।
पर्यन्तो मगधासन्नवर्ती हि विषयोऽस्ति सः ॥११९॥
सुभगाखेटभूमित्वाद्राज्ञश्चाशास्यभिधानकृत् ।
तत्रान्तः पुरमादीप्य क्रियते मन्त्रि चिन्तितम् ॥१२०॥
देवी च स्थाप्यते नीत्वा युक्त्या पद्मावतीगृहे ।
छन्नस्थिताया येनास्याः सैव स्याच्छीलसाक्षिणी ॥१२१॥
एव रात्रौ मिथः कृत्वा मन्त्रं सर्वेऽपरेऽहनि ।
यौगन्धरायणाद्यास्ते प्राविशन् राजमन्दिरम् ॥१२२॥
तत्रैषमथ विज्ञप्तो वत्सराजो रूमण्वता ।
देव ! लावाणकेऽस्माकं गतानां वर्ततं शिवम् ॥१२३॥
स चातिरम्यो विषयस्तत्र चाखेटभूमयः ।
शोभनाः सन्ति हे राजन्प्रमदासाश्च सुग्रहाः ॥१२४॥
बाधते तं च नैकट्यात्सर्वं स मगधेश्वरः ।
ततत्र रक्षाहतोश्च विनोदाय च गम्यताम् ॥१२५॥