कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 291, कुल 876 में से
संदर्भ में पढ़ें२५ कथासरित्सागर
एतद्रुमण्वतः श्रुत्वा पुनर्यौगन्धरायणः।
उवाच सह्यते क्लेशो राजभिः कार्यदर्शिभिः ॥८१॥
रावणोच्छित्तये देवीं स्मृत्वा युक्तिं वियोजिताम्।
सीतादभ्या न किं रामो विषहे विरहव्यथाम् ॥८२॥
एतच्छ्रुत्वा च भूयोऽपि रुमण्वानभ्यभाषत।
ते हि रामादयो देवास्तेषां सर्वसहं मनः ॥८३॥
असह्यं तु मनुष्याणां तथा च श्रूयतां कथा।
अस्तीह बहुरत्नाढ्या मधुरेति महापुरी ॥८४॥
तस्यामभूद् वणिक्पुत्रः कोऽपि नाम्ना मङ्खलकः।
तस्य चाभूत्प्रिया भार्या सर्वेशानुगमानसा ॥८५॥
तया सह वसन्तोऽयं कदाचित्कार्यगौरवात्।
द्वीपान्तरं वणिक्पुत्रो गन्तुं व्यवसितोऽभवत् ॥८६॥
सद्भार्यापि च तेनैव सह गन्तुमियेप सा।
स्त्रीणां भावानुरक्तं हि विरहासहनं मनः ॥८७॥
ततः स च वणिक्पुत्रः प्रतस्थे कृतमङ्गलः।
न च तां सह जग्राह भार्यां कॢप्तप्रसाधनाम् ॥८८॥
साथ तं प्रस्थितं पश्चात्पश्यन्ती साश्रुलोचना।
अतिष्ठत्प्राङ्गणद्वार कपाटान्तविसंज्ञिनी ॥८९॥
गते दृष्टिपथात्तस्मिन्सा वियोगासहा सतः।
नियन्तुं नाशकन्मुग्धा प्राणांस्तस्या विनिर्ययुः ॥९०॥
तद्बुद्ध्वा च वणिक्पुत्रः प्रत्यावृत्य च तत्क्षणम्।
ददर्श विह्वलां कान्तामेतामुत्क्रान्तजीविताम् ॥९१॥
सुन्दरापाण्डरच्छायां विलोलामलकालञ्छनाम्।
भुवि चान्द्रमसीं लक्ष्मीं दिवः सुप्तच्युतामिव ॥९२॥
अङ्के कृत्वा च तां सद्यः क्रन्दतस्तस्य निर्ययुः।
शोकाग्निज्वलिताद्देहादुत भीता इवासवः ॥९३॥
एवमन्योन्यविरहाद्दम्यती तौ विनेशतुः।
अतोऽन्य राज्ञो देव्याश्च रक्ष्यान्योन्यवियोगिता ॥९४॥
इत्युक्त्वा विरते तस्मिन्बद्धाशङ्के रुमण्वति।
जगाद धैर्यजलधिर्धीमान्यौगन्धरायणः ॥९५॥
मयैतन्निश्चितं सर्वं कार्याणि च महीभृताम्।
भवन्त्यवधिमान्यत्र तथा चान्यां कथां शृणु ॥९६॥