कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 289, कुल 876 में से
संदर्भ में पढ़ें२४८ कथासरित्सागर
सच्छल्या व्यसृजद्राजा सोऽथ प्रत्ययितान् द्विजान्।
गत्वा सुलक्षणा सा वा न वेत्यालोच्यतामिति ॥६८॥
तथेति ते द्विजा गत्वा तां दृष्ट्वैव वणिक्सुताम्।
उन्मादिनीं ययुः क्षोभं सद्यः सञ्जातमन्मथाः ॥६९॥
राजास्यां परिणीतायामवश्यमनास्त्यजेत्।
राजकार्याणि नश्येच्च सर्वं तस्मात्किमेतया ॥७०॥
इति च प्रकृतिं प्राप्ता द्विजा सम्मन्त्र्य ते गताः।
कुलक्षणा सा कस्येति मिथ्या राजानमब्रुवन् ॥७१॥
ततो राज्ञा परित्यक्तां स सोन्मादिनीं वणिक्।
तत्सेनापत्ये प्रादादन्तर्जात्यभिमानिनाम् ॥७२॥
भर्तुःवेश्मनि हर्म्यस्था साथ जातु समागतम्।
राजानं येन मार्गेण बुद्ध्वात्मानमदर्शयत् ॥७३॥
दृष्ट्वैव च स तां राजा जगत्सम्मोहनौषधिम्।
प्रयुक्तामिव कामेन जातोन्माद इवाभवत् ॥७४॥
गत्वा स्वभवनं ज्ञात्वा तां च पूर्वावधीरिताम्।
उन्मना ज्वरसन्तापपीडां गाढमवाप सः ॥७५॥
सा दासी न परस्त्री' ति गृह्यतां यदि वाप्यहम्।
त्यजामि तां देवकुले स्वीकरोतु ततः प्रभुः ॥७६॥
इति तेन च तद्भर्त्रा स्वसेनापतिना ततः।
अभ्यर्थ्यमानो यत्नेन जगादैव स भूपतिः ॥७७॥
माहुः परस्त्रीभावास्ये त्वं वा त्यक्ष्यसि तां यदि।
ततो नङ्क्ष्यति ते धर्मो दण्ड्यो मे च भविष्यसि ॥७८॥
सन्द्रुध्या मन्त्रिणोऽन्यं च तूष्णीमासन्स च क्रमात्।
स्मरज्वरेण तेनैव नृपः पञ्चत्वमाययौ ॥७९॥
एव स राजा नष्टोऽभूद्धीरोऽप्युन्मादिनीं विना।
विना वासवदत्तां तु वत्सराजः कथं भवेत् ॥८०॥
१. अत्र प्राचीन भारते प्रचलिताया देवदासित्व प्रथाया आभास उपलभ्यते साम्प्रतमपि
दक्षिणदेशे उत्कलेऽपि सैषा प्रथा दृश्यते।