सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 287, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 287

२४६ कथासरित्सागर
एवं यथा स हास्यत्वं गतः प्रव्राजकस्तथा ।
व्याजप्रयोगम्यसिद्धौ वयं गच्छेम जातुचित् ॥५४॥
बहुदोषो हि विरहो राज्ञो वासवदत्तया ।
एवं रुमण्वतोक्त सन्नाह यौगन्धरायणम् ॥५५॥
नान्यथोद्योगसिद्धिः स्यादनुद्योगे च निश्चितम् ।
राजनि व्यसनिन्येतत्क्षयेदपि यथास्थितम् ॥५६॥
लब्धापि मन्त्रिताख्यातिरस्माकं चान्यथा भवेत् ।
स्वामिसम्भावनायाश्च भवेम व्यभिचारिणः ॥५७॥
स्वायत्तसिद्धे¹ राज्ञो हि प्रज्ञोपकरणं मताः ।
सचिवाः परे भवत्सर्वे कृते वाऽप्यभवत्कृते ॥५८॥
सचिवायत्तसिद्धस्तु तत्प्रभावसाधनम् ।
त एव चन्निहत्साहाः श्रियो दत्तो जलाञ्जलिः ॥५९॥
अथ देवी पितुश्चण्डमहासनाद् विवक्त्सुसे ।
स सुपुत्रश्च देवी च वचः कुरुत एव मे ॥६०॥
इत्युक्तवन्तं धीराणां धुर्यं यौगन्धरायणम् ।
प्रमादशङ्किहृदयो रुमण्वानपुनरब्रवीत् ॥६१॥
अभीष्टस्त्रीवियोगार्त्या सविवेकोऽपि बाध्यते ।
किं पुनर्वत्सराजोऽयमात्र चैतां कथां शृणु ॥६२॥
पुराभूद्देवसेनाख्यो राजा मतिमतो वरः ।
श्रावस्तीति पुरी तस्य राजधानी बभूव च ॥६३॥
तस्यां च पुर्यामभवद् वणिगेशो महाधनः ।
तस्योदपद्यतानन्यसदृशी दुहिता किल ॥६४॥
उन्मादिनीति नाम्ना च मन्यथा सापि पप्रथे ।
उन्माद्यति गतस्तन्म्या रूपं दृष्ट्वाऽखिलो जनः ॥६५॥
मतयय्मनाबञ्च राने वेषा क्वचिन्न मः ।
रा हि कुप्येद्गिति पिता तस्या सोऽर्थयत्प्रयद् वणिक ॥६६॥
ततश्च गत्वा राजान दन्तस्तन व्यजिापन् ।
देवास्ति कन्यारत्न मे गृह्यतामुपयोगि यत् ॥६७॥
१ त्रिविधा हि राजानः— १ स्वायत्तसिद्धिः, २ सचिवायत्तसिद्धि उभयायत्तसिद्धि श्चेति। तत्रायमुद्यमः सचिवायत्तसिद्धिः।