कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 285, कुल 876 में से
संदर्भ में पढ़ें२४४ कथासरित्सागर
तथेति प्रतिपद्यैतद् गत्वा सोऽथ वणिग्भयात्।
नक्तं चक्रे तथा सर्व निर्विमर्शा हि भीरवः ॥३९॥
प्रव्राजकोऽपि तत्कालमुवाचानुचराद्विजान्।
गङ्गां गच्छत तन्मान्तर्वहन्ती यां च पश्यथ ॥४०॥
पृष्टोर्ध्वदीपां मञ्जूषां गुप्तमानयतह ताम्।
उद्घाटनीया न च सा धृतज्येष्ठार्चनाविति ॥४१॥
तथेति चागता यावद् गङ्गां न प्राप्नुवन्ति च।
राजपुत्र किमप्येकस्तावत्तस्यामवातरत् ॥४२॥
सोऽत्र तां वणिजा क्षिप्तां मञ्जूषां वीक्ष्य दीपतं ।
भृत्यैरानाय्य सहसा कौतुकादुदघाटयत् ॥४३॥
ददर्श चान्तःकन्यां तां हृद्योन्मादकारिणीम्।
उपयेमे च गान्धर्वविधिना तां च सत्क्षणम् ॥४४॥
मञ्जूषां तां च गङ्गायां तथैवोर्ध्वस्पदीपिकाम्।
कृत्वा तस्याञ्च निक्षिप्य, घोरं वानरमन्तरे ॥४५॥
गवेष्य तस्मिन्सम्प्राप्तकन्यारत्ने नृपात्मजे।
आययुस्तस्य चिन्वन्त शिष्याः प्रव्राजकस्य ते ॥४६॥
ददृशुस्तां च मञ्जूषां गृहीत्वा तस्य चान्तिकम्।
निन्यु प्रव्राजकस्यैनां सोऽथ हृष्टो जगाद तान् ॥४७॥
एकोऽह साधय मन्त्रमादामैतामिहोपरि।
अधस्तूष्णीं च युष्माभि स्थातव्यमिमां निशाम् ॥४८॥
इत्युक्त्वा तां स मञ्जूषामारोप्य मठिकोपरि।
स परिव्राट् विवृतवान् वणिक्कन्याभिकामुक ॥४९॥
सत्तश्च तस्या निर्गत्य वानरो भीषणाकृतिः।
तमभ्यधावत् स्वकृतो मूर्त्तिमानिव दुर्नयः ॥५०॥
स तस्य दशनैर्नासां नखैः कर्णौ च तत्क्षणम्।
चिच्छेद पापस्य कपिर्निग्रहज्ञ इव क्रुधा ॥५१॥
तथाभूतोऽथ स तत परिव्राडवतीर्णवान्।
यत्नस्तम्भितहासाश्च शिष्यास्तं ददृशुस्तदा ॥५२॥
प्रातर्बुद्ध्वा च तत्सर्वं जहाम सकलो जनः।
ननन्द स वणिक सा च तत्सुता प्राप्सत्पति ॥५३॥
१ प्राप्ता स्पृष्टदीपिका येति बहुव्रीहिः।