सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 281, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 281

२४ कथासरित्सागर
महासेनगुल्मचतुरवैद्ययोःकथा
आसीत्कश्चिन्महासेन इति नाम्ना पुरा नृपः।
स चान्येनाभियुक्तोऽभूद्भूपेनातिबलीयसा ॥११॥
ततः समस्य सचिवैः स्वकार्यभ्रंशरक्षिभिः।
दापितः स महासेनो दण्डं तस्मै किल द्विषे ॥१२॥
दत्तदण्डश्च राजाऽसौ मानी भृशमतप्यत।
किं मया विहितः क्षत्रो प्रणाम' इति चिन्तयन् ॥१३॥
तेनैव चास्य गुल्मोऽभूत्' शोकेन हृद्यपद्यत।
गुल्माक्रान्तश्च शोकेन स मुमूर्षुरभून्नृपः ॥१४॥
ततस्तदौषधासाध्यं मत्वैको मतिमाग्भिषक्।
मृता ते देव देवीति मिथ्या वक्ति स्म तं नृपम् ॥१५॥
तच्छ्रुत्वा सहसा भूमौ पततस्तस्य भूपतेः।
शोकावेगेन वह्निना स गुल्मः स्वयमस्फुटत् ॥१६॥
रोगोत्तीर्णश्चिरं दब्ध्वा तथैव च सहेप्सितान्।
भोगान्त्स बुभुजे राजा जिगाय च रिपून् पुनः ॥१७॥
तद्यथा स भिषग्बुद्ध्या चक्रे राजहितं तथा।
वयं राजहितं कुर्मः साधयामोऽस्य मेदिनीम् ॥१८॥
परिपन्थी च तत्रैकः प्रद्योतो मगधेश्वरः।
पाष्णिग्राहः स हि सदा पश्चात्कोपं करोति सः ॥१९॥
सतस्य कन्यकारत्नमस्ति पद्मावतीति यत्।
समस्य वत्सराजस्य कृते याचामहे वयम् ॥२०॥
छन्नां वासवदत्तां च स्थापयित्वा स्वबुद्धितः।
दत्वाग्निं वासकं ब्रूमो देवी दग्धति सर्वतः ॥२१॥
नान्यथा तां सुतां राज्ञे ददाति मगधाधिपः।
एतदर्थं स हि मया प्राथितः पूर्वमुक्तवान् ॥२२॥
नाहं वत्सदवरायेतां दास्याम्यात्माधिकां सुताम्।
तस्य वासवदत्तायां स्नेहो हि सुमहानिति ॥२३॥
१ गुल्मरोगाेनाम ग्रन्थि विशेषः स च पंचसु स्थानेषु भवति कन्ठे हृदये उदरे
नाभीचेति। शोकाद्गुल्मो बलेनेत्युच्यते। यथोक्तं माधव निदाने-दुष्टाश्च पात्तं विषयानि चापि
विशेषदत्तं वेगविधिप्रहृष्टः। शोकाभिघातोत्प्रेति मस्रायदश्व विरक्तताचाग्निित गुल्म हेतुरिति। तत्र
शोकाभिघातजो गुल्मोऽत्र राज्ञ उदरे संजातः।