सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 279, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 279

लावानको नाम तृतीयो लम्बकः
इव गुणगिरीन्द्रजाप्रणयमन्दरान्दोलना-
त्पुरा किल कथामृतं हरमुखाम्बुधेरुद्गतम्।
प्रसङ्ग रसयन्ति यं विगतविघ्नलब्धर्द्धयो
धुरं दधति बन्धुरीं भुवि भवप्रसादेन त ॥
प्रथमस्तरङ्गः
राज्ञ उदयमस्य कथा (पूर्वानुवृत्त)
निर्विघ्नविश्वनिर्माणसिद्धये यदनुग्रहम्।
मय स वव्रे धातापि तस्मै विघ्नजिते नमः॥१॥
आश्लिष्यमाणः प्रियया शत्रूरोऽपि यदाज्ञया।
उत्क्रमते स भुवनं जयत्यसमसायकः॥२॥
एव स राजा वत्सशः क्रमेण सुतरामभूत्।
प्राप्तवासवदत्तत्सुखासक्तैकमानसः ॥३॥
यौगन्धरायणश्चास्य महामन्त्री दिवानिशम्।
सेनापती रुमण्वंश्च राज्यभारमुदूहतुः ॥४॥
स कदाचिच्च चिन्तावानानीय रजनौ गृहम्।
निजगाद रुमण्वन्तं मन्त्री यौगन्धरायणः ॥५॥
पाण्डवान्वयजातोऽयं वत्सराजोऽस्य च मेदिनी।
कुलक्रमागतं कृत्स्ना पुरं च गजसाह्वयम् ॥६॥
तत्सर्वमजिगीषेण त्यक्तमेतेन भूभृता।
इहैव चास्य सञ्जातं राज्यमल्पे मण्डलम्॥७॥
स्त्रीपद्यमृगयासक्तो निश्चिन्तोऽद्यैव तिष्ठति।
अस्मासु राज्यचिन्ता च सर्वानैव समर्पिता ॥८॥
तदस्माभिः स्वबुद्धयैव तथा कार्यं यथैव तत्।
समग्रपृथिवीराज्यं प्राप्नोत्येष क्रमागतम् ॥९॥
एवं कृते हि भक्तिश्च मन्त्रिता च कृता भवेत्।
सर्वं च साध्यते बुद्ध्या तथा चैतां कथां शृणु॥१०॥
१ हस्तिनापुर मित्यर्थः।
२ धीर ललित नायक स्वस्यामिदमतिनिश्चिन्तो मुहुदर्शितं कलापरो वीरकलित स्यात्