कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 273, कुल 876 में से
संदर्भ में पढ़ेंतच्छ्रुत्वा प्रणता सा च क्षमापे शपथोत्तरम् ।
पुनर्नेवं करिष्यामि तत्प्रसादाय मे पतिम् ॥५२॥
ततः स बालोऽवादीत्तां तदार्थातस्य मत्पितुः ।
व्यादर्शं दर्शयत्वेका स्वञ्चेटी वेद्म्यहं परम् ॥५३॥
तथेत्युक्त्वा तया चेटी नियुक्ता रुद्रशर्मणः ।
आगतस्य क्षणात्तस्य दद्यामास दर्पणम् ॥५४॥
तत्र तस्य तत्काल प्रतिबिम्ब स दश्यन् ।
सोऽय द्वितीयस्तातो मे तातेत्याह स्म बालकः ॥५५॥
तच्छ्रुत्वा विगतशङ्कस्तामकारणदूषिताम् ।
पत्नीं प्रति प्रसन्नोऽभूद्रुद्रशर्मा तदैव सः ॥५६॥
एवमुत्पादयेद्दोष बालोऽपिविकृतिं गतः ।
तदय रञ्जनीयो न सम्यक्परिकरोऽखिलः ॥५७॥
इत्युक्त्वा सरुमण्वन्तः सोऽथ यौगन्धरायणः ।
सर्वं सम्मानयामास वत्सराजोत्सवे जनम् ॥५८॥
तथा च राजलोक तौ रञ्जयामासतुर्यथा ।
मदेकप्रवणावेताविति सर्वोऽप्यमन्यत ॥५९॥
तौ चाप्यपूजयद्राजा सचिवो स्वकरापितैः ।
वस्त्राङ्गरागाभरणद्रव्यैरिष्टैश्च सबसत्सकौ ॥६०॥
कृतोद्वाहोत्सवः सोऽथ युक्तो वत्सेश्वरस्तया ।
मनोरथफलान्येव मेने वासवदत्तया ॥६१॥
चिरादुद्गमित स्नेहात्सोऽप्यभूत्सततं तयोः ।
निशान्ताखिलचेष्टच्चक्रवर्त्तीतितुष्टयो रसक्रमः ॥६२॥
यथा यथा च दम्पत्यो प्रौढि परिणयो ययौ ।
तयोस्तथा तथा प्रेम नवीभावमिवाययौ ॥६३॥
गोपालकोऽथ थीवाहकतुं सन्देशतः पितुः ।
प्रययौ शीघ्रमभ्येति वत्सराजेन याचितः ॥६४॥
सोऽपि वत्सेश्वरो जातु चपलः पूर्वसङ्गताम् ।
गुप्तां विरचितां नाम मेनेऽन्तःपुरचारिकाम् ॥६५॥
तद्गोत्रस्खलितो देवी पादलग्न प्रसादयन् ।
ममे सुभगसाम्राज्यमभिषिक्तस्तदश्रुभिः ॥६६॥