सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 269, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 269

२२८ कथासरित्सागर
कृतप्रत्युद्गमं राज्ञा तमानन्दमिवापरम्।
प्राप वासवदत्ता सा प्रहर्षोत्फुल्ललोचना ॥२३॥
अमुं भ्रातरमेतस्याः पश्यन्त्या मास्म मूर्च्छना।
इत्येव तस्यास्तत्काल रुरोधाश्रु विलोचने ॥२४॥
पितृसन्देशवाक्यैश्च तेन प्रोत्साहिताय सा।
मेने कृतार्थमात्मानं स्वजनेन समागतम् ॥२५॥
ततो यथावद्ववृधेस्तया वत्सेश्वरस्य च।
व्यधो गोपालकोऽन्येद्युस्तयोद्वाह महोत्सवम् ॥२६॥
रतिहस्तलीनवोर्द्धिमिश्रमिव पल्लवमुज्ज्वलम्।
पाणिं वासवदत्ताया सोऽथ वत्सेश्वरोऽग्रहीत् ॥२७॥
सापि प्रियकरस्पर्शसान्द्राम्वननिमीलिता।
सकम्पस्वेददिग्धाङ्गी गाढरोमाञ्चकञ्चिता ॥२८॥
सुसमोहमवाप्यन्यवाक्यास्मैनिरन्तरे
विद्धेव पुष्पचापेन सद्य एव समलक्ष्यत ॥२९॥
दृष्टिं धूमामिताम्राक्षां तस्या वह्निं प्रदक्षिणे।
मदिरा मध्माधुर्यसूत्रपातमिवाकरोत् ॥३ ॥
गोपाल्कार्पिते रत्ने राज्ञा चोपायनैस्तदा।
पूर्णकोशो बभौ सत्यां वत्सक्षो राजराजताम् ॥३१॥
निर्वर्तितविवाहो तानादौ लोकस्य पश्यतः।
वधूवरौ विविशतुः पश्चात्स्वं वासवेश्मनि ॥३२॥
अथ सम्मामयामास पट्टबन्धादिना स्वयम्।
निजोत्सवे वत्सराजो गोपालकपुमिन्दको ॥३३॥
राज्ञां सम्माननार्थं च पौराणां च यथोचितम्।
योगन्धरायणस्तेन हम्बजांश्च न्ययुज्यत ॥३४॥
तोऽब्रवीद्रुमण्वन्तमेव यौगन्धरायणः।
ज्ञा कष्टे नियुक्तो स्त्वो लोकचित्तं हि दुर्ग्रहम् ॥३५॥
अरन्जितश्च बालोऽपि रोषमुत्पादमवृधुकम्।
तथा च शुश्विमा बालबिनष्टककथां सखे ॥३६॥