कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 267, कुल 876 में से
संदर्भ में पढ़ें२२६ कथासरित्सागर
ततः सानन्दया सार्धं तया वासवदत्तया।
हृष्टो वत्सश्वरश्चक्रे कौशाम्बीगमनं मनः॥८॥
गोपालकस्यागमनं प्रतीक्षेथां युवामिह।
तेनैव सह पश्चाच्च कौशाम्बीमागमिष्यथः॥९॥
इत्युक्त्वा स्थापयामास स तत्रैव महीपतिः।
श्वाशुरं तं प्रतीहारं स्वमित्रं च पुलिन्दकम्॥१०॥
ततोऽनुयातो राजेन्द्रः प्लवद्भिर्मेदनीभरान्।
अनुरागागतविन्ध्यप्राग्भारैरिव जङ्गमैः॥११॥
तुरङ्गसैन्यसङ्घातसुराघातसधर्म्मया ।
स्तूयमान इवोत्क्रान्तवन्दिसन्दर्भया मुदा॥१२॥
नभोविलङ्घिभिः सान्द्ररजोराशिभिरुद्धतैः।
सपक्षमूभूदुल्लासशङ्कां कुर्वञ्छतक्रतोः॥१३॥
स प्रतस्थे ततो देव्या सह वासवदत्तया।
स्वपुरीं प्रति राजेन्द्रः प्रातरेवापरेऽहनि॥१४॥
ततश्च दिवसैस्त्रिभिरुल्लङ्घ्य तमध्वापं सः।
विशश्राम निशामेकां रुमण्वन्मन्दिरे नृपः॥१५॥
अन्येद्युस्तां च कौशाम्बीं चिरात्प्राप्तमहोत्सवां।
मार्गोत्सुको मुखजनो प्रविवेश प्रियासखः॥१६॥
तया च स्त्रीभिरारब्धमङ्गलस्नानमण्डना।
चिरादुपगते पत्यौ बभौ नारीव सा पुरी॥१७॥
ददृशुश्चात्र पौरास्तं वत्सराजं वधूसखम्।
प्रशान्तशोकाः शशिनं सविद्युतमिवाम्बुदम्॥१८॥
हर्म्यप्रस्थांश्च पिबुः पौरनार्यो मुखेन्दिभः।
व्योमगङ्गाततोत्फुल्लहेमाम्बुरुहविभ्रमम् ॥१९॥
ततः स्वं राजभवनं वत्सराजो विवेश सः।
नृपश्रियवापरया सह वासवदत्तया॥२०॥
छेवामतनुपाकीर्णमागधोद्गीतमङ्गलम् ।
सुप्तप्रबुद्धमिव तद्रेजे राजगृहं तदा॥२१॥
अथ वासवदत्ताया भ्राता गोपालकोऽचिरात्।
आययौ सह कृत्वा तौ प्रतीहारपुलिन्दकौ॥२२॥