कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 259, कुल 876 में से
संदर्भ में पढ़ें२१८ कथासरित्सागर
जागरेणातिपानेन शिरोऽर्तिं व्यपदिश्य च।
प्रातः स तस्थौ वस्त्रेण वेष्टयित्वाङ्कितं शिरः ॥१५२॥
तथैव च पुनः सायं द्वितीयोऽपि वणिक्सुतः।
एत्य देवस्मितागेहे अलीकां१ रमवाप्तवान् ॥१५३॥
सोऽप्येत्य नग्नो वक्ति स्म तत्रैवाभरणान्यहम्।
स्थापयित्वापि निर्यातो मुषितस्तस्करैरिति ॥१५४॥
प्रातः सोऽपि शिरःशूलव्यपदेशेन वेष्टनम्।
कृत्वा प्रच्छादयामास ललाटतटमङ्कितम् ॥१५५॥
एवं सापह्नवाः सर्वे वणिक्पुत्राः क्रमेण ते।
प्रापुः शङ्कुं सलीकारमर्थभ्रंशं च लज्जिताः ॥१५६॥
अस्या अपि भवेदेवमिति ते च अलीकृतिम्।
तस्याः प्रव्राजिकायास्तामप्रकाश्या ततो ययुः ॥१५७॥
साऽथ प्रव्राजिकान्येद्युर्जगाम सह शिष्यया।
कृतप्रयोजनास्मीति हृष्टा देवस्मितागृहम् ॥१५८॥
तत्र देवस्मिता सा तां कृत्वादरमपाययत्।
मधु धत्तूरसंयुक्तं परितोषादिवाहृतम् ॥१५९॥
तेन मत्तां सशिष्यां च च्छिन्नश्रवणनासिकाम्।
तामप्यशुचिपङ्कान्ते क्षेपयामास सा सती ॥१६०॥
गत्वा मैते२ वणिक्पुत्राः पतिं हन्युः कदाचन।
इत्याकुला च सा श्वश्र्वै तं वृत्तान्तमब्रवीत् ॥१६१॥
ततः श्वश्रूरवादीत्तां पुत्रि ! साधु कृतं त्वया।
किं तु पुत्रस्य मे तस्य कदाचिदहितं भवेत् ॥१६२॥
ततो देवस्मिताबोधयत्तां शक्तिमती पतिम्।
रक्ष प्रज्ञया पूर्वममुं रक्षाम्यहं तया ॥१६३॥
१ अति पूर्वश्लिष्टमित्यर्थः।
२ मा-एतै-इति सन्धिः।