कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 249, कुल 876 में से
संदर्भ में पढ़ेंअथास्तं पितरि प्राप्त प्रेरितोऽभूत्स बन्धुभिः।
कटाहद्वीपगमनं गुहसेनो यदृच्छया॥७४॥
तच्चास्य गमनं भार्या तदा नाङ्गीचकार सा।
सेर्ष्या देवस्मिता कामम यन्त्रीसङ्गशङ्किनी॥७५
स च पत्न्यामनिच्छन्त्यां प्ररयरसु च बन्धुषु।
कर्त्तव्यनिश्चलो मूढो गुहसेनो बभूव सः॥७६॥
अथ गत्वा निराहारश्चक्रे ववकुस व्रतं।
उपायमिह देवो मे निर्दिशत्विति चिन्तयन्॥७७॥
सापि देवस्मिता तद्वत्तन सार्धं व्यधाद् व्रतम्।
ततोऽनयो शिव स्वप्नं दम्पत्योर्दर्शन ददौ॥७८॥
द्वे च रक्ताम्बुजे दत्वा स दवस्तावभाषत।
हस्ते गृह्णीतमकैकं पद्ममेतदुभावपि॥७९॥
दूरस्थत्वे च यद्येकं शीलत्यागं करिष्यति।
तच्चन्यस्य करे पद्म म्लानिमष्यति सत्वरम्॥॥८०॥
एतच्छ्रुत्वा प्रवुद्धयथ दम्पती तावपश्यताम्।
अन्योन्यस्येव हृदय हस्तस्थं रक्तमम्बुजम्॥८१॥
तत स चक्रे प्रस्थानं गुहसेनो धृताम्बुजः।
सा तु देवस्मिता तत्र तस्थौ पद्यापितेक्षणा॥८२॥
गुहसेनोऽपि तं प्राप कटाहद्वीपमाशु सः।
कर्त्तुं प्रववृत धात्र रत्नानां क्रयविक्रयौ॥८३॥
हस्ते च तस्य तद्दृष्ट्वा सर्वैवाम्लानमम्बुजम्।
तत्र कश्चिद् वणिक्पुत्राश्चत्वारो विस्मयं ययुः॥८४॥
ते युक्त्या स गृहं नीत्वा पाययित्वा भृशं मधु।
पप्रच्छुः पद्मवृत्तान्तं सोऽपि धीरः शशंस तम्॥८५॥
घघस्त्व धिरनिर्व्वाह्यरत्नाविभ्रयविक्रयम्।
विचिन्त्य गुहसगं तं चत्वारोऽपि वणिग्बसुताः॥८६॥
समन्त्र्य कौतुकात्पापास्तद्भार्याशीलविप्लवम्।
चिकीर्षवो ययुः शीघ्रं ताम्रलिप्तीमलक्षिताः॥८७॥
तत्रोपायं विचिन्वन्त मुगतायतनस्थिताम्।
प्रव्राजिकामुपाजग्मुर्नाम्ना योगकरण्डिकाम्॥८८॥