कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 245, कुल 876 में से
संदर्भ में पढ़ें२४ कथासरित्सागर
प्रातः सेनापतिश्चास्य रुमन्वन्नापदान्तिकम्।
यौगन्धरायणं प्राग्दूतं सम्प्रेष्य योषितः ॥४४॥
आगाञ्च कटकं सञ्च तया व्याप्तदिगन्तरम् ।
यथा विन्ध्याटवीं प्राप सा सम्बाधरसङ्गताम् ॥४५॥
प्रविश्यकटकं तस्मिंस्तस्यामेवाटवीभुवि ।
तस्यावुज्जयिनीवासां त्रास वत्सेश्वरोऽथ सः ॥४६॥
तत्रस्थं च समभ्यागादुज्जयिन्या वणिक्तया।
योगन्धरायणसुहृत्स वागत्याब्रवीदिदम् ॥४७॥
देव चण्डमहासेनः प्रीतो जामातरि त्वयि ।
प्रेषितश्च प्रतीहारस्तेनेह भवदन्तिकम् ॥४८॥
स नागच्छन् स्थितः पश्चादहमग्रत एव तु।
प्रच्छन्नः सत्वरं देवि! विज्ञापयितुमात्मनः ॥४९॥
एतच्छ्रुत्वा स वत्सशो जहर्ष च शशंस च।
सर्वं वासवदत्तायाः सापि हर्षमगात्परम् ॥५०॥
कृतबन्धुपरित्यागा विवाहविधिसत्वरा ।
अथ वासवदत्ता सा सलज्जा चोत्सुका तया ॥५१॥
ततः स्वान्तविनोदाय निकटस्थं वसन्तकम्।
सा जगाद कथा काचित्त्वया मे कथ्यतामिति ॥५२॥
स च मुग्धदृशस्तस्या भर्तृभक्तिविवर्धिनीम् ।
वसन्तकस्तदा धीमानिमामकथयत्कथाम् ॥५३॥
गुहसेनदेवस्मितयोः कथा
अस्तीह नगरी लोके ताम्रलिप्तीति विश्रुता ।
तस्यां च धनदत्ताख्यो वणिगासीन्महाधनः ॥५४॥
स चापुत्रो बहून्विप्रान्मुकुटश्च प्रणतोऽब्रवीत् ।
तथा कुरुत पुत्रो मे यथा स्यादचिरादिति ॥५५॥
ततस्तमूचुर्विप्रास्त नैतत्किञ्चन दुष्करम् ।
सर्वं हि साधयन्तीह द्विजः धोतेन कर्मणा ॥५६॥
तथा च पूर्वमभवद्राजा कश्चिदपुत्रकः ।
पञ्चोत्तरं शतं धामुसन्यान्तं पुण्योषिताम् ॥५७॥
पुत्रोत्पद्या च सम्यक्तो जन्तुर्नाम सुतोऽजनि ।
तत्पत्नीनामगणनां मृतगम्भूय्या इति ॥५८॥