सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 243, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 243

५२ कथासरित्सागरे
वत्सेशोऽपि तमायान्तं पथि वानरयोधयत् ।
नडागिरिः करेणुं तां दृष्ट्वा न प्रजहार च ॥२९॥
ततः स पालको भ्रात्रा पश्चादेत्य न्यवार्यत ।
गोपालकेन वाक्यज्ञः पितृकार्यानुरोधिना ॥३०॥
वत्सराजोऽपि विलम्ब्य गन्तुं प्रवृते ततः ।
गच्छतश्चास्य शनकैः शर्वरी व्यत्यहीयत ॥३१॥
ततो विन्ध्याटवीं प्राप्य मध्याह्ने तस्य भूपतेः ।
त्रिषष्टियोजनायाता तृषिताभूत्करेणुका ॥३२॥
अवतीर्णे सभार्ये च राज्ञि तस्मिञ्जराणि सा ।
पीत्वा तदोपतं प्राप पञ्चतां हस्तिनी क्षणात् ॥३३॥
विषण्णोऽथ स वत्सेशः सह वासवदत्तया ।
गगनादुद्गतामेतां शृणोति स्म सरस्वतीम् ॥३४॥
अहू मायावती नाम राजन् ! विद्याधराङ्गना ।
इयन्तं कालमभवं शापशेषेण हस्तिनी ॥३५॥
उपकारं च वत्सेश तवाद्य श्रुतिवत्यहम् ।
करिष्यामि च भूयोऽपि स्वत्पुत्रस्य भविष्यतः ॥३६॥
एषा वासवदत्ता च पत्नी ते नैव मानुषी ।
दैवीय कारणवशादवतीर्णा क्षिताविति ॥३७॥
सतः स हृष्टो व्यसृजन्निव्यसानु वसन्तकम् ।
पुलिन्दकाय सुहृदे वक्तुं स्वागमनं नृपः ॥३८॥
स्वयं च पादचारी सन् स घर्मैयसिकान्वितः ।
तभव गच्छन्नुत्थाय दस्युभिः पर्यवार्यत ॥३९॥
धनुर्द्वितीयो वस्तूनां तेषां पञ्चोत्तर शतम् ।
पुरी वासवदत्ताया वत्सराजः स चावधीत् ॥४०॥
तत्क्षण सोऽस्य राज्ञोऽथ मित्र चागात्पुलिन्दकः ।
यौगन्धरायणसखी वसन्तकपुरःसरः ॥४१॥
स तान्दस्त्युभिदार्यान्यान्वत्सेश प्रजिघाय तम् ।
नयति स्म निजां पत्नीं भिल्लराजः सवस्तनम् ॥४२॥
तत्र तां रात्रिमाराध्यवर्मपादितषापया ।
स वत्सेशो दिशायाम सह वासवदत्तया ॥४३॥