सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 225, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 225

१८४ कथासरित्सागर
सतस्तया निभृतान्यपुरुषासङ्गया सह।
यथासुखं स रात्रैव तस्यौ तन्मन्दिरे युवा ॥९०॥
तद्दृष्ट्वा शिक्षिताशेषवेपयोपिर्जगाद ताम्।
माता मकरदंष्ट्रा सा क्षिप्ता रूपणिकां रहः ॥९१॥
किमयं निर्धनं पुत्रि! सभ्यत पुरुषस्त्वया।
धनं स्पृहयन्ति सुजना गणिका न तु निर्धनम् ॥९२॥
क्वानुरागः क्व वेश्यात्वमिति तं विस्मृतं कथम्।
सन्ध्येव रागिणी वेश्या न स्थिरं पुत्रि! दीप्यते ॥९३॥
मटीव कृत्रिमं प्रेम गणिकार्थाय दर्शयेत्।
तदेनं निर्धनं मुञ्च मा कृथा नाशमात्मनः ॥९४॥
इति मातुर्वचः श्रुत्वा रुषा रूपणिकाब्रवीत्।
मैवं वादीर्मम ह्येष प्राणेभ्योऽप्यधिकः प्रियः ॥९५॥
धनमस्ति च मे भूरि किमन्येन करोम्यहम्।
तदम्ब! मन्न वन्तव्या भूयोऽप्येवमहं त्वया ॥९६॥
सङ्क्रुद्धा मोहजङ्घस्य निर्वासनविधौ कृथा।
तस्यौ मकरदंष्ट्रा सा तस्योपायं विचिन्वती ॥९७॥
अथ मार्गगतं कञ्चित्तीक्ष्णकोशं ददर्श सा।
राजपुत्रं परिवृतं पुरुष्यैः शस्त्रपाणिभिः ॥९८॥
उपगम्य द्रुतं तं च नीत्वैकान्ते जगाद सा।
निर्धनेन ममैकेन कामुकनावृतं गृहम् ॥९९॥
तन्ममागच्छ तन्नाशं तथा च कुरु यन सः।
गृहान्मम निवर्तेत मदीयां च सुतां भज ॥१००॥
तथेति राजपुत्रोऽथ प्रविवेश स तद्गृहम्।
तस्मिन्क्षणे रूपणिका तस्यौ देवकुले च सा ॥१०१॥
सोऽहञ्कश्च तत्कालं बहिः क्वापि स्थितोऽभवत्।
क्षणान्तरे स निशङ्कस्तमेव समुपाययौ ॥१०२॥
तत्क्षणं राजपुत्रस्य तस्य भृत्यः प्रधाव्य सः।
पृष्ठं पादप्रहाराद्यैः सर्वेष्वङ्गेष्वताडयत् ॥१०३॥
ततस्तैरेव चामेष्यपूर्वं क्षिप्तः स सातके।
मोहजङ्घः कथमपि प्रपलायितवांस्ततः ॥१०४॥