सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 209, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 209

इति मे तव कल्याणमपश्यन्त्या गलन्त्यमी।
सन्तापक्वथिताः प्राणा इव बाष्पाम्बुबिन्दवः ॥५७॥
इत्यङ्गारवतीवाक्यं श्रुत्वा राजा जगाद ताम्।
यदि मय्यस्ति ते स्नेहस्तदिदं मद्वचः कुरु ॥५८॥
प्रबुद्धस्यास्य गत्वा त्वं रोदिहि स्वपितुः पुरः।
ततश्च नियतं स त्वां पृच्छेद्बुद्वेगकारणम् ॥५९॥
त्वां सन्निपातयेत्कश्चित्ततो मे का गतिर्भवेत्।
एतद्दुःखं ममेत्येवं स च वाच्यस्त्वया ततः ॥६०॥
एवं कृतेऽस्ति कल्याणं तवापि च ममापि च।
इत्युक्ता तेन सा राज्ञा तथत्यङ्गीचकार तम् ॥६१॥
तं च प्रच्छन्नमवस्थाप्य राजानं पापशङ्किनी।
जगामासुरकन्या सा प्रसुप्तस्यान्तिकं पितुः ॥६२॥
सोऽपि दैत्यः प्रबुबुधे प्रारम्भे सा च रोदितुम्।
किं पुत्रि ! रोदिषीत्येवं स च तामब्रवीत्ततः ॥६३॥
'हन्त्यास्त्वां कोऽपि चेत्तात ! तदा मे का गतिर्भवेत्।
इत्याख्यां तमवादीत्सा स विहस्य ततोऽब्रवीत् ॥६४॥
को मां व्यापादयेत्पुत्रि ! सर्वो वध्यमयो ह्यहम्।
वामहस्तेऽस्ति मे छिद्रं सञ्च चापेन रक्ष्यते ॥६५॥
इत्थमाश्वासयामास स दैत्यस्तां निजां सुताम्।
एतच्च निखिलं तत्र राजा छन्नः शुश्राव ॥६६॥
ततः क्षणादिवोत्थाय कृत्वा स्नानं स दानवः।
कृतमौनः प्रववृते देवं पूजयितुं हरम् ॥६७॥
तत्कालं प्रकटीभूय स राजाकृष्टकार्मुकः।
उपेत्य प्रसमं दैत्यं रणायाह्वयते स्म तम् ॥६८॥
सोऽप्युत्क्षिप्य करं वामं मौनस्थस्तस्य भूपतेः।
प्रतीक्षस्व क्षणं तावदिति संज्ञां तदाकरोत् ॥६९॥
राजापि लघुहस्तत्वात्करं तमेव तत्क्षणम्।
तस्मिन्मर्मणि तं दैत्यं पृषत्केन जघान सः ॥७०॥
स च मर्माहतो घोरं रावं कृत्वा महासुरः।
अगारकोश्याप्तद् भूमौ न्यञ्जीबो जगाद च ॥७१॥
सुषितोऽहं हतो येन स मामवृभिर्न तर्पयेत्।
प्रत्यब्दं यदि तत्तस्य नश्येयुः पञ्च मन्त्रिणः ॥७२॥