सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 205, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 205

१६४ कथासरित्सागर
एव कृत्वा च सन्निमान् वत्सराजो जगाद सः ।
यामि चण्डमहासनमिह बद्धवानयामि तम् ॥२८॥
तच्छ्रुत्वा तमुवाचाप्तो मन्त्री योगन्धरायणः ।
न चैतच्छक्यते राजन् कर्तुं नैव च युज्यते ॥२९॥
स हि प्रभाववान् राजा स्वीकायश्च सव प्रभो ।
तथा च तद्गतं सर्वं शृण्विदं कथयामि ते ॥३०॥
राज्ञश्चण्डमहासेनस्य कथा
अस्तीहोज्जयिनी नाम नगरी भूषणं भुवः ।
हसन्तीव सुधाधौतैः प्रासादैरमरावतीम् ॥३१॥
यस्यां वसति विश्वेशो महाकालवपुः स्वयम् ।
शिथिलीकृतकैलासनिवासव्यसनो हरः ॥३२॥
तस्यां महेन्द्रवर्माख्यो राजाभूद्भूभृतां वरः ।
जयसेनाभिधानोऽस्य बभूव सदृशः सुतः ॥३३॥
जनमेजयस्य तस्याथ पुत्रोऽप्रतिमदोर्बलः ।
समुत्पन्नो महासेननामा नृपतिकुञ्जरः ॥३४॥
सोऽथ राजा स्वराज्यं तत्पालयन्समचिन्तयत् ।
न मे खड्गोऽनुरूपोऽस्ति न च भार्या कुलोद्गता ॥३५॥
इति सञ्चिन्त्य स नृपश्चण्डिकागृहमागमत् ।
तत्रातिष्ठन्निराहारो देवीमाराधयंश्चिरम् ॥३६॥
उत्कृत्याथ स्वमांसानि होमकर्म च चाकरोत् ।
ततः प्रसन्ना साक्षात्सा देवी चण्डी तमभ्यधात् ॥३७॥
प्रीतास्मि ते गृहाणेमं पुत्र ! खड्गोत्तमं मम ।
एतत्प्रभावाच्छत्रूणामजयस्त्वं भविष्यसि ॥३८॥
अपि चाङ्गारवती नाम कन्यां त्रैलोक्यसुन्दरीम् ।
अङ्गारकासुरसुतां शीघ्रं भार्यामवाप्स्यसि ॥३९॥
अतीव चण्डकर्मेदं कृतं चैतद्यतस्त्वया ।
अतश्चण्डमहासेन इत्याख्या ते भविष्यति ॥४०॥
इत्युक्त्वा दत्तखड्गा सा देवी तस्य तिरोऽभवत् ।
राज्ञः सङ्कल्पसम्पत्तिवृष्टिरविर्बभूवुन ॥४१॥