कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 201, कुल 876 में से
संदर्भ में पढ़ें१६० कथासरित्सागर
ततस्तं बह्याश्च तनयमनुरक्तप्रकृतिष्विव
निवेश्य स्वे राज्ये जगदुदयहेतोरुदयनम् ।
सहस्रानीकोऽसौ सचिवसहितः सप्रियतमो
महाप्रस्थानाय क्षितिपतिरगच्छद्धिमगिरिम् ॥२१७॥
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे
कथामुखलम्बके द्वितीयस्तरङ्गः
तृतीयस्तरङ्गः
ततः स वत्सराज्यं च प्राप्य पित्रा समर्पितम् ।
कौशाम्ब्यवस्थितः सम्यक्छशासोदयनः प्रजाः ॥१॥
यौगन्धरायणाद्येषु भरं विन्यस्य मन्त्रिषु ।
बभूव स शनै राजा सुखैकान्ततत्परः ॥२॥
सदा सिषेवे मृगयां वीणां घोषवतीं च ताम् ।
दत्तां वासुकिना पूर्वं भक्तस्दिनमवादयत् ॥३॥
तत्तन्त्रीक्वणनिर्ह्लादमोहमन्यवशीकृतान् ।
आनिनाय च संयम्य सदा मत्तान् वनद्विपान् ॥४॥
स वारनारीवक्त्रेन्दुप्रतिमालङ्कृतां सुराम् ।
मन्त्रिणां च मुखच्छायां वत्सराजः समं पपौ ॥५॥
कुरूपस्यानुरूपा मे भार्या क्वापि न विद्यते ।
एका वासवदत्ताख्या कन्यका श्रूयते परम् ॥६॥
कथं प्राप्येत सा चेति चिन्तामेकामुवाह सः ।
सोऽपि चण्डमहासेन उज्जयिन्यामचिन्तयत् ॥७॥
तुल्यो मदुहितुर्भर्त्ता जगत्यस्मिन्न विद्यते ।
अस्ति चोदयनो नाम विपक्षः स च मे सदा ॥८॥
तत्कथं माम जामाता वश्यश्च स भवेन्मम ।
उपायस्त्वक एवास्ति यदटव्यां भ्रमत्यसौ ॥९॥
एकाकी द्विरदान्वेषी मृगयाव्यसनी नृपः ।
तेन च्छिद्रेण तं युक्त्यावष्टभ्यानाययाम्यहम् ॥१०॥
गान्धर्वशास्त्रं तस्यैतां सुतां शिक्षीकरोमि च ।
ततश्चास्यां स्वयं तस्य चक्षुः स्निह्यत्यसंशयम् ॥११॥
एवं स मम जामाता वश्यश्च नियतं भवेत् ।
मान्योऽस्त्युपायः कोऽप्यत्र येन वश्यो भवेन्न सः ॥१२॥