सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 199, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 199

१५६ कथासरित्सागर
प्रहारमूर्च्छितं बद्ध्वा श्रीदत्तं भग्नसैनिकम्।
निन्युश्चोरा स्वपल्लीं ते स्वीकृत्य सकलं धनम्॥१९८॥
ते च तं प्रापयामासुश्चण्डिकासद्म भीषणम्।
उपहाराय चण्डानां नादेयस्थुरिवाद्रयम्॥१९९॥
समापश्यच्च तं पल्ली सा पल्लीपतिपुत्रिका।
सुन्दरी द्रष्टुमायाता देवीं बालसुतान्विता॥१९ ॥
निषिद्धवत्या मध्यस्थान्दस्यूनामन्दपूर्णया।
स श्रीदत्तस्तया साकं तन्मन्दिरमबाविशत्॥१९१॥
तदन्न पल्लीराज्यं तत्राप पित्रा यदर्पितम्।
प्रायेणानन्यपुत्रेण सुन्दर्यै गच्छता दिवम्॥१९२॥
तं च घोरसमाक्रान्तं सपितृभ्यपरिच्छदम्।
सकलं च रेमेऽसौ स खड्गं च मृगाङ्ककम्॥१९३॥
समेव शूरसेनस्य सुतां तां परिणीय च।
धीवतोऽपि महान् राजा नगरे समपद्यत॥१९४॥
प्रजिघाय स दूतांश्च ततः श्वशुरयोस्तयोः।
दिव्यकेतस्य तस्यापि शूरसेनस्य भूपते॥१९५॥
तमुपाजग्मतुस्तौ च समासमुवयान्वितौ।
तं विज्ञायैक सम्बन्धं मुदा दुहितृवत्सलौ॥१९६॥
तेऽपि स्वव्रणा स्वस्थखास्तद्वियुक्ता वयस्यकाः।
बाहुशालिप्रभृतयस्सवुबुद्ध्या तमुपाययुः॥१९७॥
अथ स्वसुतसंयुक्तो गत्वा तं पितृमातिनम्।
चक्रे विश्रमशक्तिं स धीर प्रधानराष्ट्रतिम्॥१९८॥
ततश्च साम्बिबल्यां श्रीदत्त प्राप्य मेदिनीम्।
मनन्द विरहोत्तीर्णः स मृगाङ्कवतीसमः॥१९९॥
इत्थं नरपते दीर्घवियोगव्यसनार्णवम्।
तरन्ति च लभन्ते च कल्याणं धीरचेतसः॥२००॥
इति सङ्केतकाच्छ्रुत्वा कथां स दयितोत्सुकः।
तां निनाय निशां मार्गे सहस्रानीकभूपतिः॥२०१॥
ततो मनोरथारूढः पुरं प्रहितमानसं।
प्रात सहस्रानीकोऽसौ प्रतस्थे स्वां प्रियां प्रति॥२०२॥