कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 197, कुल 876 में से
संदर्भ में पढ़ें१५६ कथासरित्सागर
प्रहारमूर्च्छितं बद्ध्वा श्रीदत्तं भग्नसैनिकम्।
निन्युश्चोरा स्वपल्लीं ते स्वीकृत्य सकलं धनम् ॥१८८॥
ते च तं प्रापयामासुश्चण्डिकासद्म भीषणम्।
उपहाराय घण्टानां नाधमृत्युरिहाह्वयत् ॥१८९॥
तत्रापश्यच्च तं पत्नी सा पल्लीपतिपुत्रिका।
सुन्दरी द्रष्टुमायाता देवीं बालसुतान्विता ॥१९०॥
निषिद्धहत्या मध्यस्थान्दस्यूनानन्दपूर्णया।
स श्रीदत्तस्तया साकं सन्मन्दिरमथाविशत् ॥१९१॥
सद्यश्च पल्लीराज्यं तत्प्राप पित्रा यदर्पितम्।
प्रागेवानन्यपुत्रेण सुन्दर्या गच्छता दिवम् ॥१९२॥
स च घोरसमाक्रान्तं सपितृव्यपरिच्छदम्।
सकलत्रं च लब्धैतौ तं सङ्गं च मृगाङ्ककम् ॥१९३॥
तत्रैव शूरसेनस्य सुतां तां परिणीय च।
श्रीदत्तोऽपि महान् राजा नगरे समपद्यत ॥१९४॥
प्रजिघाय स दूतांश्च ततः श्वशुरयोस्तयोः।
विम्बकस्तस्य तस्यापि शूरसेनस्य भूपतेः ॥१९५॥
समुपाजग्मतुस्तौ च सेनासमुदयान्वितौ।
तं विज्ञाय च सम्बन्धं मुदा दुहितृवत्सलौ ॥१९६॥
तेऽपि स्वव्रणाः स्वस्थास्तद्वियुक्ता वयस्यकाः।
बाहुशालिप्रभृतयस्तद्बुद्ध्यैव तमुपाययुः ॥१९७॥
अथ श्वशुरसंयुक्तो गत्वा तं पितृघातिनम्।
चक्रे विक्रमशक्तिं स वीरः क्षेमानलाहुतिम् ॥१९८॥
ततश्च साब्धिवसयां धीमत्तः प्राप्य मेदिनीम्।
ननन्द विरहोत्तीर्णः स मृगाङ्कवतीसखः ॥१९९॥
इत्थं नरपत दीर्घवियोगव्यसनार्णवम्।
तरन्ति च लभन्ते च कल्याणं धीरचेतसः ॥२००॥
इति संश्रुतवाञ्छ्रुत्वा कथां स दयितोत्सुकः।
तां निनाय निशां मार्गे सहस्रानीकभूपतिः ॥२०१॥
ततो मनोरथारूढ पुरः प्रहितमानसः।
प्रात सहस्रानीकोऽसौ प्रतस्थे स्वां प्रियां प्रति ॥२०२॥