सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 193, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 193

१५२ कथासरित्सागरे
तत्र च स्थापिता गेहे स्थविरस्य द्विजन्मनः ।
विश्वदत्ताभिधानस्य न्यासीकृत्य सगौरवम् ॥१५८॥
ततश्चाहमिहायातो वुबुद्ध्वा त्वन्नाम तन्मुखात् ।
तामन्वेष्टुं ततो गच्छ शीघ्रं नागस्थलं प्रति ॥१५९॥
इत्युक्तो लुब्धकेनाथ स श्रीदत्तस्ततो ययौ ।
तं च नागस्थलं प्रापवपरेद्युर्विनात्यये ॥१६० ॥
भवनं विश्वदत्तस्य प्रविश्याथ विलोक्य तम् ।
ययाचे देहि मे भार्या लुब्धकस्थापितामिति ॥१६१॥
तच्छ्रुत्वा विश्वदत्तस्तं श्रीदत्तं निजगाद सः ।
मथुरायां सुहृन्मेऽस्ति ब्राह्मणो गुणिनां प्रियः ॥१६२॥
उपाध्यायश्च मन्त्री च शूरसेनस्य भूपतेः ।
तस्य हस्ते त्वदीया सा गृहिणी स्थापिता मया १६३॥
अयं हि विजनो ग्रामो न तत्रक्षाक्षमा भवेत् ।
तत्प्रातस्तत्र गच्छ त्वमद्य क्षम्यतामिह ॥१६४॥
इत्युक्तो विश्वदत्तेन स नीत्वाथ तां निशाम् ।
प्रातः प्रतस्थे प्रापञ्च मथुरामपरे दिने ॥१६५॥
दीर्घाध्वम्लानस्तस्मिन्नगरे बहिरेव सः ।
स्नानं चक्रे परिश्रान्तो निर्मले दीर्घिकाजले ॥१६६॥
सत एषाम्बुमध्याच्च वस्त्रं चौरनिवेष्टितम् ।
प्राप्तवानञ्चलप्रन्थिबद्धहारमसञ्जितम् ॥१६७॥
अथ तद्वस्त्रमादाय स तं हारमलक्षयन् ।
प्रियां दिवृक्षुः श्रीदत्तो विवेश मथुरां पुरीम् ॥१६८॥
तत्र तत्प्रत्यभिज्ञाय वस्त्रं हारमवाप्य च ।
स चौर इत्यवष्टभ्य निग्ये नगररक्षिभिः ॥१६९॥
दर्शितश्च तथाभूतो नगराधिपतेश्च तैः ।
तेनाप्यावदिता राजे राजाप्यस्याविदधाद् वधम् ॥१७०॥
ततो वध्यभुवं हन्तुं नीयमानं ददर्श तम् ।
सा मृगाङ्कवती दूरात् पश्चादाहतडिण्डिमम् ॥१७१॥
योऽयं मे नीयते भर्ता वधायेति ससम्भ्रमम् ।
सा गत्वा मन्त्रिमुख्यं तमब्रवीद्गृह स्थिता ॥१७२॥