सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 191, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 191

[Page Header]
१५० कथासरित्सागर

भगवत्युपहारत्वं यत एवासि कल्पितः।
अत एव सदा वस्त्रभोजनैश्चोपचर्यसे ॥१४३॥
एकस्तु मुक्त्युपायस्ते विद्यते यदि मन्यसे।
अस्त्यस्य सुन्दरी नाम शबराधिपतेः सुता ॥१४४॥
अयमर्थे सा च दृष्ट्वा त्वां जायते मदनातुरा।
तां भजस्व वयस्यां मे ततः क्षेममवाप्स्यसि ॥१४५॥
तमित्युक्तो विमुक्त्यर्थी स धीवस्तस्तदन्विति ताम्।
गान्धर्वविधिना गुप्तां भार्यां व्यधित सुन्दरीम् ॥१४६॥
रात्रौ रात्रौ च सा तस्य बन्धनानि व्यवारयत्।
अचिराच्च सगर्भा सा सुन्दरी समपद्यत ॥१४७॥
तत्सर्वमथ तन्माता बुद्ध्वा मोचनिकामुखात्।
जामातुस्तद्रहो गत्वा स्वैरं श्रीदत्तमब्रवीत् ॥१४८॥
पुत्र! श्रीचण्डनामासौ कोपनः सुन्दरीपिता।
न त्वां क्षमेत तद् गच्छ विस्मर्तव्या न सुन्दरी ॥१४९॥
इत्युक्त्वा मोचितः श्वश्र्वा खड्गं श्रीचण्डहस्तगम्।
सुन्दर्यै निजमावेद्य श्रीदत्तः प्रययौ ततः ॥१५०॥
विवेश बाह्यां तामेव चिन्ताक्रान्तो निजाटवीम्।
मृगाङ्कवत्याः पदवीं तस्या जिज्ञासितुं पुनः ॥१५१॥
निमित्तं च शुभं दृष्ट्वा तमेवोद्देशमाययौ।
यत्रास्याश्वो मृतः सोऽथ यत्र सा हारिता वधूः ॥१५२॥
तत्र चैकं ददर्शार्त्तस्तुलुब्धकं सम्मुखागतम्।
दृष्ट्वा च पृष्टवांस्तस्याः प्रवृत्तिं हरिणीदृशः ॥१५३॥
किं श्रीदत्तस्त्वमित्युक्तो लुब्धकेन च तत्र सः।
स एव मन्दभाग्योऽहमित्युवाच विनिश्वसन् ॥१५४॥
ततः स लुब्धकोऽवादीत्सखि वच्मि सखे! शृणु।
दृष्टा सा ते मया भार्या क्रन्दन्ती त्वामितस्ततः ॥१५५॥
पृष्ट्वा ततश्च वृत्तान्तमाश्वास्य च कृपाकुरुः।
निजां पल्लीमितोऽरण्याद्दीनां तां नीतवानहम् ॥१५६॥
तत्र चालोक्य तरुणान्पुलिन्दांत्सभयेन सा।
मथुरानिकटं ग्रामं नीता नागम्बरुं मया ॥१५७॥