कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 189, कुल 876 में से
संदर्भ में पढ़ें१४८ कथासरित्सागर
तत्कालं चास्य सत्रेण सा मृगाङ्कवती प्रिया ।
त्रासायासपरिश्रान्ता तृषार्त्ता समपद्यत ॥१२८॥
स्नापयित्वा च तां तत्र गत्वा दूरमितस्ततः ।
जलमन्विष्यतश्चास्य सवितास्तमुपाययौ ॥१२९॥
ततः स लब्धेऽपि जले मार्गनाशवशाद् भ्रमन् ।
चक्रवाकवधूकूजां निनाय निशां वने ॥१३०॥
प्रातः प्राप च तत्स्थानं पतिताश्वोपलक्षितम् ।
न च तत्र क्वचित् कान्तां राजपुत्रीं ददर्श ताम् ॥१३१॥
ततः स मोहाद् विन्यस्य भुवि खड्गं मृगाङ्ककम् ।
वृक्षाग्रमारुहोन्नामवेक्षितुमितस्ततः ॥१३२॥
तत्क्षणं तेन मार्गेण कोऽप्यागच्छच्छबराधिपः ।
स चागत्यैव जग्राह वृक्षमूलान् मृगाङ्ककम् ॥१३३॥
तं दृष्ट्वापि स वृक्षाग्रादवतीर्यैव पृष्टवान् ।
प्रियाप्रवृत्तिमार्त्तं धीदस्तं शबराधिपम् ॥१३४॥
इतस्त्वं गच्छ मत्पल्लीं जाने सा तत्र ते गता ।
अह्रं तत्रैव चैष्यामि दास्याम्यसिमिमं च ते ॥१३५॥
इत्युक्त्वा प्रेषितस्तेन शबरेण स चोत्सुकः ।
धीवरस्तां ययौ पल्लीं तदीये पुरुषैः सह ॥१३६॥
श्रमं तावद् विमुञ्चेति तत्रोक्तः पुरुषैश्च सः ।
प्राप्य पल्लीपतेर्गेहं श्रान्तो निद्रां क्षणाद्ययौ ॥१३७॥
प्रबुद्धश्च ददर्श स्वौ पादौ निगडसंयुतौ ।
असम्यर्थद्गतौ कान्ताप्राप्त्युपायोधमाविव ॥१३८॥
अथ क्षण दरासुखां क्षणान्तरविभाविनीम् ।
दैवस्य च गतिं शोचन् तस्थौ शोचन् स तां प्रियाम् ॥१३९॥
एकदा तमुवाचास्य चटी मोषणिकामिषा ।
आगतोऽसि महाभाग कुनेहं बत मृत्यवे ॥१४०॥
कार्यसिद्धय स हि क्वापि प्रयातः शबराधिपः ।
आगत्य चण्डिकायास्त्वामुपहारीकरिष्यति ॥१४१॥
एतदर्थं हि तेन त्वमितो विन्ध्याटवीतलात् ।
प्राप्य युक्त्या विसृज्येह नीतः सम्प्रति बन्धनम् ॥१४२॥