कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 187, कुल 876 में से
संदर्भ में पढ़ें१४६ कथासरित्सागर
सम्मन्दिरं च दग्धा सा धीवा स्त्री सुतया सह ॥११२॥
लोकस्तु तां सखीयुक्तां मेन दग्धां नृपात्मजाम्।
प्रातश्च पूर्ववत्तत्र श्रीदत्तो ददृशे जनैः ॥११३॥
ततो रात्रौ द्वितीयायां स गृहीतमृगाङ्ककः।
श्रीदत्तः प्रययौ पूर्वं प्रस्थितां तां प्रियां प्रति ॥११४॥
तया च रात्र्यातिक्रम्य दूरमध्वानमुत्सुकः।
विन्ध्याटवीमथ प्राप स प्रातः प्रहरे गते ॥११५॥
तत्राधावनिमिषाक्षि पश्चादपि ददर्श तान्।
सर्वान्निहाराभिहतान्सपद्मवनिकान् सखीन् ॥११६॥
ते च दृष्ट्वा निजगुस्तं सम्भ्रान्तमुपागतम्।
मुषिताः स्मो निपत्याथ बह्वश्वारोहसेनया ॥११७॥
एकेन चाश्वारोहेण राजपुत्री भयाकुला।
अस्मास्वतदवस्थेषु नीताश्वमभिरोप्य सा ॥११८॥
दूरं न यावन्नीता च तावद् गच्छानया दिशा।
अस्माकमन्तिकं मा स्थाः सर्वषामभ्यधिका च सा ॥११९॥
इति तैः प्रेषितो मित्रैर्मुहुः पश्यन्निवृत्त सः।
जवेन राजतनयां श्रीदत्तोऽनुससार ताम् ॥१२०॥
गत्वा सुदूरं लेभे च तामश्वारोहवाहिनीम्।
युवानमेकं तन्मध्ये क्षत्रियं स ददर्श च ॥१२१॥
तेनोपरि तुरङ्गस्य गृहीतां तां नृपात्मजाम्।
अपश्यच्च ययौ चास्य क्षत्रसूनोऽन्तिकं क्रमात् ॥१२२॥
सास्त्रेण राजपुत्रीं ताममुञ्चन्तं च पावतः।
अश्वादाक्षिप्य दृषदि श्रीदत्तस्तमचूर्णयत् ॥१२३॥
तं हत्वा च तमेवाश्वमारुह्य निजघान तान्।
अन्यान्यपि बहून्क्रुद्धानश्वारोहान् प्रभाववान् ॥१२४॥
हतशेषास्ततस्ते च तद्दृष्ट्वा तस्य तादृशम्।
वीरस्यामानुषं वीर्यं पलाय्य त्रस्य युः ॥१२५॥
स चापि तुरगारूढो राजपुत्र्या तया सह।
मृगाङ्कवत्या श्रीदत्तः प्रययौ तान् सखीन् प्रति ॥१२६॥
स्तोकं गत्वा च तस्याश्वः सङ्ग्रामे व्रणितो भृशम्।
समाग्रस्यावतीर्णस्य पपात प्राप पञ्चताम् ॥१२७॥