सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 181, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 181

१४ कथासरित्सागर
एवं निष्ठुरकाच्छ्रुत्वा पितरावनुशोच्य स।
निदधे प्रतिनाराच्यामिव खड्गे दृशं मुहुः॥६७॥
काल प्रतीक्षमाणोऽथ वीरो निष्ठुरकान्वितः।
प्रतस्थे तान् सखीन् प्राप्तुं स तामूज्जयिनीं पुरीम्॥६८॥
आमज्जनान्तं वृत्तान्तं सख्युस्तस्य च वर्णयन्।
धीदत्तः स ददर्शाकां क्रोशन्तीमबलां पथि॥६९॥
अबला भ्रष्टमार्गाहि मालवं प्रस्थितेति ताम्।
ब्रुवतीं वयया सोऽथ सह प्रस्थायिनीं व्यधात्॥७०॥
तया वयानुरोधाच्च स्त्रिया निष्ठुरकान्वितः।
कस्मिंश्चिच्छून्यनगरे दिने तस्मिन्नुवास स॥७१॥
तत्र रात्रावकस्माच्च मुक्तनिद्रो ददर्श ताम्।
स्त्रियं निष्ठुरकं हत्वा हृष्टां मांसमश्नतीम्॥७२॥
उदतिष्ठत्समाकृष्य सोऽथ खड्गं मृगाङ्ककम्।
सापि स्त्री राक्षसीरूपं घोरं स्वं प्रत्यपद्यत॥७३॥
स च केशेषु जग्राह निहन्तुं तां निशाचरीम्।
तत्क्षणं दिव्यरूपञ्च सम्प्राप्ता समुवाच सा॥७४॥
मा मां वधीर्महाभाग मुञ्च नैवास्मि राक्षसी।
अयमेवविधः शापो ममाभूत्कौशिका मुनेः॥७५॥
तपस्यतो हि तस्याहं धनाधिपतिनामुया।
विघ्नाय प्रहिता पूर्वं तत्पदप्राप्तिकांक्षिणः॥७६॥
तत कान्तेन रूपेण तं क्षोभयितुमक्षमा।
लज्जिता त्रासयन्त्यन्यमकार्षं भैरवं वपुः॥७७॥
तद्दृष्ट्वा स मुनिः शापं सदृशं मय्यथो दधे।
राक्षसी भव पापे त्वं निघ्नन्ती मानुषानिति॥७८॥
त्वत् केशग्रहे प्राप्ते शापान्तं मे स चाब्रवीत्।
इत्यहं राक्षसीभावमिमं कष्टमुपागमम्॥७९॥
मयैवं नगरं यत्तद् ग्रस्तमद्य च मे चिरात्।
त्वया कृतः स शापान्तस्तद्गृहाणाधुना वरम्॥८०॥
इति तस्या वचः श्रुत्वा धीदत्तः सादरमभ्यधात्।
किमन्येन वरेणायं जीवत्वेष सखा मम॥८१॥