कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 165, कुल 876 में से
संदर्भ में पढ़ें१२६ कथासरित्सागर
विज्ञातद्यापवृत्तान्तो बोधितश्च स मन्त्रिभिः।
कथञ्चिज्जीवितं दध्रे पुन' सङ्गमवाञ्छया ॥५४॥
तां च राज्ञीं स पक्षीन्द्रः क्षणात्रीत्वा मृगावतीम्।
जीवन्तीं वीक्ष्य तत्याज देवादुदयपर्वते ॥५५॥
त्यक्त्वा तस्मिन्गते चाथ राज्ञी शोकमयाकुला।
ददर्शनात्मानमात्मानं दुर्गेमाद्रितटस्थितम् ॥५६॥
एकाकिनीमकवस्त्रां क्रन्दन्तीमथ तां वने।
ग्रासीकर्तुं प्रवृत्तोऽभूदुत्थायाजगरो महान् ॥५७॥
निहत्याजगरं तं च शुमोदकां क्षमव सा।
दिव्येन मोहिता पुंसा दृष्टनष्टेन कनचित् ॥५८॥
ततो वनगजस्याग्रे सा स्वयं मरणार्थिनी।
आत्मानमक्षिपत्सोऽपि ररक्ष दययेव ताम् ॥५९॥
चित्रं यच्छ्वापदोऽप्येनां पतितामपि गोचरे।
नावधीन्मघवा किं हि न भवदीश्वरेच्छया ॥६०॥
अथ प्रपाताभिमुखी बाला गर्भभराल्लसा।
स्मरन्ती तं च भर्तारं मुक्तकण्ठं रुरोद सा ॥६१॥
तच्छ्रुत्वा मुनिपुत्रोऽथ तत्रैकस्तां समाययौ।
आगतः फलमूलार्थं कृपा मूर्तिमतीमिव ॥६२॥
स च पृष्ट्वा यथानृत्तमाश्वास्य च कृशाम्पन्।
जमदग्न्याश्रमं राज्ञीं निनायैनां दयार्द्रधीः ॥६३॥
तत्र मूर्त्तमिवोद्दाम जमदग्निं ददर्श सा।
तेजसा स्थिरबालाके कुर्व्वाणमुदयाचलम् ॥६४॥
गोत्रेण तां परिज्ञातां मुनिराधीतवत्सलः।
राज्ञीं वियोगदुःखार्त्तां दिव्यदृष्टिरभाषत ॥६५॥
इह ते जनिता पुत्रि ! पुत्रः शतपरः पितुः।
भविष्यति च भर्त्ता ते सङ्गमो मा शुचं कृथाः ॥६६॥
इत्युक्त्या मुनिना साध्वी सा जगाद मृगावती।
प्रापमेत्यस्थितिं तस्मिन्प्राणां च प्रियसङ्गमे ॥६७॥
उदयनजन्मक्रथा
तत्रैषा न्यवसन्नन्दं दयापनीयमनिन्दिता।
मन्दकुक्षिगियापारं पुत्ररत्नमसूत सा ॥६८॥