सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 149, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 149

११२ कथासरित्सागर
तथैव प्रकटीभूतात्प्रसन्नादिन्दुशेखरात् ।
त्यक्तान्यमोक्षलिप्सेन त्वद्गणत्वं मया वृतम् ॥११०॥
यत् पूजितोऽस्मि भवता स्वयमाहृतेन
माल्येन दुर्गवनभूमिसमुद्भवेन ।
सन्माल्यवानिति भविष्यसि मे गणस्त्व-
मित्यादिशच्च स विभुर्गिरिजापतिर्माम् ॥१११॥
अथ मर्त्यवपुर्विमुच्य पुण्या सहसा त्वद्गणसामहं प्रपन्नः ।
इति धूर्जटिना कृतः प्रसादादभिधानं मम माल्यवानीतीदम् ॥११२॥
सोऽहं गतः पुनरिहाथ मनुष्यभावं ।
शापेन शल्यदुहितुर्वत काणभूते !
तन् कथां हरकृतां कथयाधुना त्वं
येनावयोर्भवति शापद्दोषोपशान्तिः ॥११३॥
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे
कथापीठलम्बके सप्तमस्तरङ्गः

अष्टमस्तरङ्गः
एव गुणाढ्यवचसा सा च सप्तकथामयी ।
स्वभाषया कथा दिव्या कथिता काणभूतिना ॥१॥
तथैव च गुणाढ्येन पैशाच्या भाषया तया ।
निबद्धा सप्तभिर्वर्षैर्ग्रन्थलक्षणि सप्त सा ॥२॥
मैतां विद्याधरा हार्थुरिति तामात्मशोणितैः ।
अटव्यां मध्यमाबाध्य लिखन्न स महाकविः ॥३॥
तया च श्रोतुमायातैः सिद्धविद्याधरादिभिः ।
निरन्तरमभूत्तत्र सवितानमिवाम्बरम् ॥४॥
गुणाढ्येन निबद्धां च तां दृष्ट्वैव महाकथाम् ।
जगाम मुक्तशापः सन्काणभूतिर्निजां गतिम् ॥५॥
पिशाचा येऽपि तत्रासन्नन्ये तत्सहचारिणः ।
तेऽपि प्रापुर्दिवं सर्वे दिव्यामाकर्ण्य तां कथाम् ॥६॥
प्रतिष्ठां प्रापणीयेयं पृथिव्यां मे बृहत्कथा ।
मयमर्त्योऽपि मे दत्त्वा शापान्तोक्तावुदीरितः ॥७॥
तत्कथं प्रापयाम्येनां कस्मै तावत्समर्पये ।
इति चाचिन्तयत्तत्र स गुणाढ्यो महाकविः ॥८॥