कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 147, कुल 876 में से
संदर्भ में पढ़ें११० कथासरित्सागर
स्वं शरीरं सकलं तुलां राजाध्यरोपयत् ।
'साधु साधु' शमं स्वतस्त्रिव्या वागुदुभूवत ॥९५॥
इन्द्रयमौ ततस्त्यक्त्वा रूपं श्येनकपोतयो ।
तुष्टावतश्चतुरुद्वे तं राजानं चक्षतु शिविम् ॥९६॥
दत्त्वा चास्मै वरानन्यांस्तावन्तर्धानमीयतु ।
एवं मामपि कोप्येष देवो जिज्ञासुरागत ॥९७॥
इत्युक्त्वा सचिवांस्त्वैरं स सुशर्मा महीपति ।
समुवाच भयत्रस्तं विप्ररूपं गणोत्तमम् ॥९८॥
अभयं देहि साधो स्नुषा स हारिता निशि ।
माययेव गता क्वापि रहस्यमाजाप्यहर्निशम् ॥९९॥
कृच्छ्रात्स दयमेवाथ विप्ररूपो गणोऽब्रवीत् ।
तर्हि पुत्राय राजन् देहि स्वां समभामिति ॥१००॥
तच्छ्रुत्वा शापभीतेन राज्ञा तस्मै निजा सुता ।
सा दत्ता देवदत्ताय तत पञ्चशिखो ययौ ॥१०१॥
देवदत्तोऽपि तां भूय प्रकाश प्राप्य वल्लभाम् ।
अजृम्भेऽनन्यपुत्रस्य श्वशुरस्य विभूतिषु ॥१०२॥
कालेन तस्य पुत्रं च दौहित्रमभिषिच्य स ।
राज्ये महीधरं नाम सुशर्मा शिश्रिये वनम् ॥१०३॥
ततो दृष्ट्वा सुतैश्वर्यं कृतार्थ स तपोवनम् ।
राजपुत्र्या तया साकं देवदत्तोऽप्यशिश्रियत् ॥१०४॥
तत्राराध्य पुरं शम्भुं त्यक्त्वा मर्त्यकलेबरम् ।
तत्प्रसादेन तस्यैव गणभावमुपागत ॥१०५॥
प्रियादन्तोऽस्मिन्मातृपुष्पारसर्गा न ज्ञातवान्यत ।
अत स पुष्पदन्ताख्य सम्पन्नो गणसंसदि ॥१०६॥
तद्भार्या च प्रतीहारी देव्या जाता जयाभिधा ।
इत्थं स पुष्पदन्ताख्यो मदाख्यामधुना शृणु ॥१०७॥
माल्यवतः पूर्वकथा
य स गोविन्ददत्ताख्यो देवदत्तपिता द्विज ।
तस्यैव सोमदत्ताख्य पुत्रोऽहमभवं पुरा ॥१०८॥
तेनैव मन्युना गत्वा तपश्चाहं हिमाचले ।
अकार्ये बहुभिर्मास्यैः शङ्कर नन्दमन्ववा ॥१०९॥