सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 143, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 143

१०६ कथासरित्सागर
सञ्ज्ञामेतामजानानो गूढां राजसुताकृताम् ।
स कर्तव्यविमूढः सन्नुपाध्यायगृहं ययौ ॥६५॥
रुलोठ तत्र धरणीं न किञ्चिद्वक्तुमीश्वरः ।
यापन् दह्यमानोऽन्तमूकः प्रमुषितो यथा ॥६६॥
वितर्क्य कामनैश्चित्यमुपाध्यायेन धीमता ।
युक्त्या पृष्टः कथञ्चिन्नु यथावृत्तं शशंस सः ॥६७॥
तद्बुद्ध्वा तमुपाध्यायो विदग्धो वाक्यमब्रवीत् ।
दन्तेन पुष्पं मुञ्चन्त्या तया सञ्ज्ञा कृता तव ॥६८॥
यद्दन्तपुष्पवन्ताख्यं पुष्पादयं सुरमन्दिरम् ।
तत्रागत्य प्रतीक्षस्वा साम्प्रतं गम्यतामिति ॥६९॥
श्रुत्वेति ज्ञातसञ्ज्ञार्थः स तत्याज शुचं युवा ।
ततो देवगृहस्यान्तस्तस्य गत्वा स्थितोऽभवत् ॥७०॥
साप्यष्टमीं समुद्दिश्य तत्र राजसुता ययौ ।
एकैव देवं द्रष्टुं च गर्भागारमथाविशत् ॥७१॥
दृष्टोऽत्र द्वारपट्टस्य पश्चात्सोऽथ प्रियस्तया ।
गृहीतानन चोत्थाय सा कण्ठे सहसा ततः ॥७२॥
चित्रं त्वया कथं ज्ञाता सा सञ्ज्ञेत्युदितं तया ।
उपाध्यायेन सा ज्ञाता न मयेति जगाद सः ॥७३॥
मुञ्च मामविदग्धस्त्वमित्युक्त्वा सत्वरात्क्रुधा ।
म त्रमदभयात्साथ राजकन्या ततो ययौ ॥७४॥
सोऽपि गत्वा विविक्ते तां दृष्टनष्टां स्मरन्प्रियाम् ।
दद्यदत्तो वियोगाग्निबिगरुद्धजीवितोऽभवत् ॥७५॥
दृष्ट्वा स तादृशं दाग्भुं प्राणप्रसन्नं किलादिदात् ।
गणः पञ्चशिखो नाम तस्याभीप्सितसिद्धये ॥७६॥
स चागत्य समाश्वास्य स्त्रीवेषं तं गणोत्तमः ।
अकारयत्स्वयं चाभूद् वृद्धब्राह्मणरूपभृत् ॥७७॥
ततस्तेन समं गत्वा तं मृगममहीपतिम् ।
जनकं मुत्तमञ्जय्याः स जगाद गणाग्रणीः ॥७८॥
पुत्रो मे प्रोषितः क्वापि तमन्वष्टुं व्रजाम्यहम् ।
तमं स्नुषां निक्षेपो राजन्सम्प्रति रक्ष्यतम् ॥७९॥