सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 141, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 141

१०४ कथासरित्सागरे
अथ गोविन्ददत्तस्तमुवाच शपथोत्तरम्।
न स्पृशाम्यपि बालेष्वेतानहं कुतनयानिति ॥४९॥
तद्भार्यापि समेवैत्य तमुवाचातिविप्रिया।
ततः कथञ्चिदातिथ्यं तत्र वैश्वानरोऽग्रहीत् ॥५०॥
सर्वदृष्ट्वा देवदत्ताख्यस्तस्यैकस्तनयस्तदा ।
अभूद्गोविन्ददत्तस्य नैर्घृण्येनानुतापवान् ॥५१॥
व्यर्थं जीवितमालोक्य पितृभ्यामथ दूषितम्।
सनिर्वेदः स तपसे ययौ बदरिकाश्रमम् ॥५२॥
ततः पर्णाशनः पूर्वं धूमपश्चाप्यनन्तरम्।
तस्थौ चिराय तपसे तोषयिष्यन्नुमापतिम् ॥५३॥
ददौ च दर्शनं तस्य शम्भुस्तीव्रतपोजितः।
तस्यैवामुचरश्चाथ स वव्रे वरमीश्वरात् ॥५४॥
विद्याः प्राप्नुहि भोगांश्च भुवि भुङ्क्ष्व शतस्तव।
भविताभिमतं सर्वमिति शम्भुस्तमादिशत् ॥५५॥
ततः स गत्वा विद्यार्थी पुरं पाटलिपुत्रकम्।
सिषेवे वेदकुम्भाख्यमुपाध्यायं यथाविधि ॥५६॥
ततस्तं तमुपाध्यायपत्नी जातु स्मरातुरा।
हठाद् वव्रे यतः स्त्रीणां चञ्चलाश्चित्तवृत्तयः ॥५७॥
तेन सन्त्यज्य तं देशमनङ्गीकृतविप्लवः ।
स देवदत्तः प्रययौ प्रतिष्ठानमतन्द्रितः ॥५८॥
तत्र वृद्धमुपाध्यायं वृद्धया भार्ययान्वितम्।
मन्त्रस्वाम्याख्यमभ्यर्थ्य विद्याः सम्यग्ग्रहीतवान् ॥५९॥
कृतविद्यश्च तं तत्र ददर्श नृपतेः सुता।
सुसर्माख्यस्य सुभगं धीर्नाम धीरिवाच्युतम् ॥६०॥
सोऽपि तां दृष्टवान्कक्ष्यां स्थितां वातायनोपरि।
विहरन्तीं विमानस्थं चन्द्रस्येवाधिदेवताम् ॥६१॥
बद्धाविव तयोरन्योन्यं भारपुद्गलया दृशा।
मापसक्तुं समर्थौ तौ बभूवतुरुभावपि ॥६२॥
साप तस्यैषयाऽऽहूत्या मूर्तेयेव स्मराज्ञया।
इतो निकटमेहीति सञ्ज्ञां चक्रे नृपात्मजा ॥६३॥
ततः समीप तस्याश्च ययावन्तःपुरस्य सः।
सा च चिक्षेप दन्तेन पुष्पमादाय तं प्रति ॥६४॥