सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 139, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 139

१२ कथासरित्सागर
दिवा नैषां प्रभावोऽस्ति ध्वस्तानामक॑तेजसा ।
यक्षरक्षःपिशाचानां तेन दृष्यन्त्यमी निशि ॥३५॥
न पूज्यन्ते सुरा यत्र न च विप्रा यथोचितम् ।
भुज्यते विधिना वापि तत्रत प्रभवन्ति च ॥३६॥
अमांसभक्षः साक्षी वा यत्र तत्र न यान्त्यमी ।
शुचीन्शूरानप्रबुद्धांश्च नाक्रामन्ति कदाचन ॥३७॥
इत्युक्त्वा मे स तत्काल मूर्तिमब्रवीत्पुनः ।
गच्छागतो गुणाढ्यस्त शापमोक्षस्य॒ कारणम् ॥३८॥
श्रुत्वैतवागतश्चास्मि त्वञ्च दृष्टो मया प्रभो !
कथयाम्यधुना तां ते पुष्पदन्तोदितां कथाम् ॥३९॥
किं त्वेकं कौतुकं मेऽस्ति कथ्यतां केन हेतुना ।
स पुष्पदन्तस्त्वं चापि माल्यवानिति विश्रुतः ॥४० ॥
काणभूतेरिति श्रुत्वा गुणाढ्यस्तमभाषत ।
गङ्गातीरेऽग्रहारोऽस्ति नाम्ना बहुसुवर्णकः ॥४१॥
तत्र गोविन्ददत्ताख्यो ब्राह्मणोऽभूद्बहुश्रुतः ।
तस्य भार्याग्निदत्ता च बभूव पतिदेवता ॥४२॥
स कालेन द्विजस्तस्यां पञ्च पुत्रानजीजनत् ।
ते च मूर्खा सुरूपाश्च बभूवुरभिमानिनः ॥४३॥
अथ गोविन्ददत्तस्य गृहानतिथिराययौ ।
विप्रो वैश्वानरो नाम वैश्वानर इवापरः ॥४४॥
गोविन्ददत्त तत्कालं गृहादपि बहिः स्थिते ।
सत्पुत्राणामुपागम्य कृत ऽनाभिवादनम् ॥४५॥
हासमात्रं च तैस्तस्य कृतं प्रत्यभिवादनम् ।
तत स कोपात्रिर्गन्तुं प्रारेभे तद्गृहाद्द्विजः ॥४६॥
आगतेनाथ गोविन्ददत्तेन स तथाविधः ।
रुद्ध पृष्टोऽनुनीतोऽपि जगाद द्विजोत्तमः ॥४७॥
पुत्रास्ते पतिता मूर्खास्तत्सम्पर्काद् भवानपि ।
तस्मान्न भोक्ष्य त्वद्गेहे प्रायश्चित्तं नु मे भवेत् ॥४८॥