कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 137, कुल 876 में से
संदर्भ में पढ़ें१
कथासरित्सागर
इत्युक्त्वान्तर्हिते देवे निरगच्छमहं बहिः ।
तण्डुला मे प्रदत्ताश्च तत्र देवोपजीविभिः ॥२०॥
ततोऽहमागतो राजंस्तदुरास्ते च मे पथि ।
क्षिप्रं धावन्त एवासन्मुष्यमाणा दिने दिने ॥२१॥
एवमुक्त्वा स्ववृत्तान्तं विरते शर्ववर्मणि ।
उदतिष्ठन्नृपः स्नातुं प्रहृष्टः सातवाहनः ॥२२॥
ततोऽहं कृतमौनत्वाद् व्यवहारबहिष्कृतः ।
अनिच्छन्तं समामन्त्र्य प्रणानेनैव भूपतिम् ॥२३॥
निर्गत्य नगरात्तस्माच्छिष्यद्वयसमन्वितः ।
तपसे निश्चितो द्रष्टुमागतो विन्ध्यवासिनीम् ॥२४॥
स्वप्नादेशेन देव्या च एष्वव प्रेषितस्ततः ।
विन्ध्याटवीं प्रविष्टोऽहं त्वां द्रष्टुं भीषणामिमाम् ॥२५॥
पुलिन्दवाक्यादासाद्य सार्थं कैवर्तकञ्चन ।
इह प्राप्तोऽहमद्राक्षं पिशाचान् सुबहूनमून ॥२६॥
अन्योन्यालापमेतेषां दूरादाकर्ण्य शिक्षिता ।
मया पिशाचभाषेयं मौनमोक्षस्य कारणम् ॥२७॥
उपगम्य ततश्चैतां त्वां श्रुत्वोज्जयिनीगतम् ।
प्रतिपालितवानस्मि यावदभ्यागतो भवान् ॥२८॥
दृष्ट्वा त्वां स्वागतं कृत्वा चतुर्भ्यां भूतभाषया ।
मया जातिः स्मृतेत्येष वृत्तान्तो मज्जन्मनि ॥२९॥
एवमुक्ते गुणाढ्येन काणभूतिरुवाच तम् ।
त्वदागमो मया ज्ञातो यथायं निशि तच्छृणु ॥३०॥
राक्षसो भूतिवर्माख्यो दिव्यदृष्टिः सखास्ति मे ।
गतवानस्मि चोद्यानमुज्जयिन्यां तदासवम् ॥३१॥
तत्रासौ निजशापान्तं प्रतिपृष्टो मयाब्रवीत् ।
दिवा नास्ति प्रभावो नस्तिष्ठ रात्रौ वदाम्यत ॥३२॥
तथति चाहं तत्रस्थः प्राप्तायां निशि सङ्गताम् ।
तमपृच्छं प्रसङ्गेन भूतानां हर्षकारणम् ॥३३॥
पुरा विरञ्चिप्रभवावे यदुक्तं शङ्करेण तत् ।
शृणु वच्मीति मामुक्त्वा भूतिवर्माथ सोऽब्रवीत् ॥३४॥