सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 135, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 135

यहाँ पृष्ठ का पंक्ति-दर-पंक्ति लिप्यंतरण प्रस्तुत है:

१८ कथासरित्सागर
ततोऽध्वनि मनाक्छेषे जाते तीव्रतपः कृशः ।
क्लान्तः पतितवानस्मि निर्मनो धरणीतले ॥५॥
उत्तिष्ठ पुत्र सर्वं ते सम्पत्स्यत इति स्फुटम् ।
दर्शितहस्तः पुमानन्यः जाने मामब्रवीत्तदा ॥६॥
तेनाहममृतासारसिक्त इव तत्क्षणम् ।
प्रबुद्धः क्षुत्पिपासाविहीनो स्वस्थ इवाभवम् ॥७॥
अथ देवस्य निकटं प्राप्य भक्तिभराकुलः ।
स्नात्वा गर्भगृहं तस्य प्रविष्टोऽभूवमुन्मनाः ॥८॥
कृतान्तं प्रभुणा सूनुं स्कन्देन मम दर्शनम् ।
दत्तं ततः प्रविष्टा मे मुखं मूर्त्ता सरस्वती ॥९॥
अथासौ भगवात्साक्षात्षडभिराननपङ्कजैः ।
'सिद्धो वर्णसमाम्नाय' इति सूत्रमुदैरयत् ॥१०॥
तच्छ्रुत्वैव मनुष्यत्वसुलभाच्चापलाद् यतः ।
उत्तरं सूत्रमभ्यूह्य स्वयमेव मयोदितम् ॥११॥
अथाब्रवीत्स देवो मां नावदिष्यः स्वयं यदि।
अभविष्यदिदं शास्त्रं पाणिनीयोपमर्दकम् ॥१२॥
अधुना स्वल्पतन्त्रत्वात् कातन्त्राख्यं भविष्यति ।
मद्वाहनकलापस्य नाम्ना कालापकं तथा ॥१३॥
इत्युक्त्वा शब्दशास्त्रं तत्प्रकाश्यैवाभिनवं भुवि ।
साक्षादेव स मां देवः पुनरेवमभाषत ॥१४॥
युष्मदीयः स राजापि पूर्वजन्मन्यभून्नृपः ।
भरद्वाजमुनेः शिष्यः कृष्णसंज्ञो महातपाः ॥१५॥
सुत्याभिलाषामालोक्य स चैकां मुनिकन्यकाम् ।
ययावकस्मात्पुष्पेषुशरघातवशंगताम् ॥१६॥
अतः स शप्तो मुनिभिरवतीर्ण इहाधुना ।
सा चावतीर्णा देवीत्वे तस्यैव मुनिकन्यका ॥१७॥
इत्थमुभयावताराऽयं नृपतिः सातवाहनः ।
दृष्टे त्वय्यस्मिंश्चा विद्या प्राप्स्यत्येव स्वदिच्छया ॥१८॥
अक्लिष्टलभ्या हि भवन्त्युत्तमार्था महात्मनाम् ।
जन्मान्तरार्जिताः स्फारसंस्काराक्षिप्तसिद्धयः ॥१९