कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 115, कुल 876 में से
संदर्भ में पढ़ें८० कथामरित्सागरै
एवं प्रतिदिनं कृत्वा प्राप्य मूल्यं क्रमान्मया।
काष्ठिकेभ्योऽखिलं दारु क्रीतं तेभ्यो विनिश्चयम् ॥४५॥
अकस्मादथ सञ्जाते काष्ठच्छेदातिवृष्टिभिः ।
मया तद्दारु विक्रीतं पणानां बहुभिः शतैः ॥४६॥
तेनैव विपणिं कृत्वा धनेन निजकौशलात्।
कुर्वन्वणिज्यां क्रमशः सम्पन्नोऽस्मि महाधनः ॥४७॥
सौवर्णो मूषकः कृत्वा मया तस्मै समर्पितः ।
विशाखिलाय सोऽपि स्वां कन्यां मह्यमदात्ततः ॥४८॥
अतएव च लोकेऽस्मिन् प्रसिद्धो मूषकराख्यया।
एव लक्ष्मीरियं प्राप्ता निर्धनेन सता मया ॥४९॥
सञ्श्रुत्वा तत्र तेऽभूवन्वणिजोऽन्ये सविस्मयाः ।
धीरैर्न चित्रीयते कस्मादमित्तो चित्रकर्मणा ॥५०॥
मूर्खद्विजवेश्याकथा
क्वचित्प्रतिग्रहप्राप्तहेममाषाष्टको द्विजः।
छन्दोगः कश्चिदित्युक्तो विटप्रायेण केनचित् ॥५१॥
ब्राह्मण्याद् भोजनं तावदस्ति ते सत्त्रयामुना।
लोकयात्रा सुवर्णेन वैदग्ध्यायैह शिक्ष्यताम् ॥५२॥
को मां शिक्षयतीत्युक्तो तं मुग्धं सोऽब्रवीत् ।
यैषा चतुरिका नाम वेश्या तस्या गृहं व्रज ॥५३॥
तत्र किं करवाणीति द्विजेनोक्तो विटोऽब्रवीत् ।
स्वर्णं दत्वा प्रयुञ्जीथा रञ्जयन्ताम् किञ्चन ॥५४॥
धूर्तेनेवम्प्रच्छन्दोगो द्रुतं चतुरिकागृहम् ।
उपाविशत्प्रविश्याथ कृतप्रत्युद्गतिस्तया ॥५५॥
मामद्य लोकयात्रां त्वं शिक्षयैतेन साम्प्रतम् ।
इति जल्पन्स तत्तस्यै स्वर्णमर्पितवान् द्विजः ॥५६॥
प्रहसत्यथ तत्रस्थे जने किञ्चिद्वद् विचिन्त्य सः ।
गोवज्रसदृशौ कृत्वा करावायतसारणौ ॥५७॥
तारस्वरं तया साम गायति स्म जडाशयः ।
यथा तत्र मिषन्ति स्म विटा हास्यविदूषकः ॥५८॥
ते चावोचञ्शृगालोऽयं प्रविष्टोऽत्र कुतोऽन्यथा।
तच्छीघ्रमर्धचन्द्रोऽस्य मस्तकेऽस्मिन्दीयतामिति ॥५९॥