सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 111, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 111

७६ कथासरित्सागर
विप्रभ्रातरय तस्मान्मम गर्भे इति स्वसु ।
श्रुत्वा क प्रत्ययोऽत्रेति वत्सगुल्माववोचताम् ॥१५॥
ततो रहसि सस्मार सा च नागकुमारकम्।
स्मृतमात्रागत सोऽथ वत्सगुल्मावभाषत ॥१६॥
भार्या कृता मयैवेय शापभ्रष्टा वराप्सरा ।
युष्मत्स्वसा युवा चैव शापेनैव च्युतौ भुवि ॥१७॥
पुत्रो जनिष्यते चात्र युष्मत्स्वसुरसंशयम्।
ततोऽस्या शापनिर्मुक्तिर्युवयोरपि भविष्यति ॥१८॥
इत्युक्त्वाऽन्तर्हितः सोऽभूत्तत स्तोकैश्च वासरै ।
श्रुताथाया सुतो जातःस्त हि जानीहि मा सख ! ॥१९॥
गणावतारो जातोऽय गुणाढ्यो नाम ब्राह्मणः।
इति तत्कालमुदमूदन्तरिक्षात्सरस्वती ॥२०॥
क्षीणशापास्ततस्ते च जननी मातुलौ मम।
कालेन पञ्चतां प्राप्ता गतश्चाहमधीरताम् ॥२१॥
अथ शोक समुत्सृज्य बालोऽपि गतवानहम्।
स्वावष्टम्भेन विद्यानां प्राप्तये दक्षिणापथम् ॥२२॥
कालेन तत्र सम्प्राप्य सर्वा विद्याः प्रसिद्धिमन्।
स्वदेशमागतोऽभूव वर्धयिष्यन्निजान् गुणान् ॥२३॥
प्रविशंश्च चिरात्तत्र नगरे सुप्रतिष्ठिते
अपश्य शिष्यसहित शोभां कामप्यह तदा ॥२४॥
क्वचित्सामानि छन्दोगा गायन्ति च यथाविधि।
क्वचिद् विवादो विप्राणामभूद् वेदविनिर्णये ॥२५॥
योऽत्र द्यूतकला वेत्ति तस्य हस्तगतो निधिः।
इत्यादिसर्ववेर्धूर्तमस्तुवन्कितवा क्वचित् ॥२६॥
अन्यान्यं निजवाणिज्यदशाक्रोधप्रवादिनाम्।
क्वचिच्च वणिजां मध्य वणिगेकोऽब्रवीदिदम् ॥२७॥
मूषकदर्शनं प्राप्तवतो वणिजः कथा
अर्थं सयत्नवानर्थात्प्राप्नोति कियदद्भुतम्।
मया पुनर्विनेवार्थं लक्ष्मीरासादिता पुरा ॥२८॥
गर्भस्थस्य च मे पूर्वं पिता पञ्चत्वमागतः।
मन्मातुश्च तदा पापैर्ज्ञातिजै सकल हृतम् ॥२९॥