सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 109, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 109

७४ कथासरित्सागर
षष्ठस्तरङ्गः
ततः स मर्त्यवपुषा माल्यवान् विचरन् वनं।
नाम्ना गुणाढ्यः संवित्वा सातवाहनभूपतिम् ॥१॥
संस्कृताद्यास्त्वग्रे च भाषास्तिस्रः प्रतिज्ञया।
त्यक्त्वा खिन्नमना द्रष्टुमाययौ विन्ध्यवासिनीम् ॥२॥
तदावसनं गत्वा च काणभूतिं ददर्श सः।
ततो जातिं निजां स्मृत्वा प्रबुद्धः सहसाऽभवत् ॥३॥
आदित्य भाषां पैशाचीं भाषात्रयविलक्षणाम्
श्रावयित्वा निजं नाम काणभूतिं च सोऽब्रवीत् ॥४॥
पुष्पदन्ताच्छ्रुतां दिव्यां शीघ्रं कथय मे कथाम्।
येन शापं तरिष्यावस्त्वं चाहं च समं सखे ॥५॥
गुणाढ्यकथा
तच्छ्रुत्वा प्रणतो हृष्टः काणभूतिरुवाच तम्।
कथयामि कथां किं तु कौतुकं मे महत्प्रभो ! ॥६॥
आत्मचरितं तावच्छंस मे कुर्व्वन्नुग्रहम्।
इति तेनार्थितो वक्तुं गुणाढ्योऽथ प्रचक्रमे ॥७॥
प्रतिष्ठानेऽस्ति नगरं सुप्रतिष्ठितसञ्ज्ञकम् ।
तत्राभूत्सोमशर्माख्यः कोऽपि ब्राह्मणसत्तमः ॥८॥
वत्सश्च गुल्मकश्चैव तस्य द्वौ तनयौ सता।
जायते स्म तृतीया च श्रुतार्था नाम कन्यका ॥९॥
कालेन ब्राह्मणः सोऽथ सभार्यः पञ्चतां गतः।
तत्पुत्रौ तौ स्वसारं तां पालयन्तावतिष्ठताम् ॥१०॥
सा चाकस्मात्सगर्भामूत्तद्दृष्ट्वा वत्सगुल्मयोः ।
तत्रान्यपुंष्यामापाच्छङ्कान्योग्यमजायत ॥११॥
ततः श्रुतार्था चित्तज्ञा भ्रातरौ तावभाषत।
पापशङ्का न कर्त्तव्या शृणुतं कथयामि वाम् ॥१२॥
कुमारः कीर्त्तिसेनाख्यो नागराजस्य वासुकेः ।
भ्रातुः पुत्रोऽस्ति तेनाहं दृष्टा स्नातुं गता सती ॥१३॥
ततः स मदनाक्रान्तो निजधान्वयनामनी।
गान्धर्वेण विवाहेन मां भार्यामकरोत्तदा ॥१४॥