कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 107, कुल 876 में से
संदर्भ में पढ़ें७२ कथासरित्सागर
सोऽपि इहमिव क्रोधादृष्या शप्तो गणोत्तम ।
माल्यवान्नाम मत्पक्षपाती मर्त्यत्वमागतः ॥१३०॥
तस्मै महेश्वरोक्तैषा कथनीया महाकथा ।
यतस्त्वं शापनिर्मुक्तिस्तस्य चापि भविष्यति ॥१३१॥
एव वररुचिस्तेन काणभूतिर्निवर्च स ।
प्रतस्थे देहमोक्षाय पुण्यं बदरिकाश्रमम् ॥१३२॥
गच्छन्वन्द्य गङ्गायां सोऽथ शाकाशिनं मुनिम् ।
तत्समक्षं च तस्यो कुशनाभूरकरक्षतिः ॥१३३॥
ततोऽस्य रुधिरं निघ्नंस्तन शाकरसीकृतम् ।
अहङ्कारपरीक्षार्थं कौतुकात्स्वप्रभावतः ॥१३४॥
तद्दृष्ट्वा हन्त सिद्धोऽस्मीत्यगाद्दर्पमसौ मुनिः ।
ततो वररुचिः किञ्चिद् विहस्यैव जगाद तम् ॥१३५॥
जिज्ञासनाय रक्तं ते मया शाकरसीकृतम् ।
यावन्नाद्याप्यहङ्कारः परित्यक्तस्त्वया मुने ॥१३६॥
ज्ञानमार्गे अहङ्कारः परिपन्थी दुरतिक्रमः ।
ज्ञानं विना च नास्त्येव मोक्षो व्रतशतैरपि ॥१३७॥
स्वगस्तु न मुमुक्षूणां क्षयी चित्तं विलोभयेत् ।
तस्मादहङ्कृतित्यागाज्ज्ञाने यत्नं मुने ! कुरु ॥१३८॥
विनीयैवं मुनिं तं प्रयतं कृतस्तुतिः ।
तं बदर्याशमोद्देशं शान्तं वररुचिर्ययौ ॥१३९॥
अथ स निबिडभक्त्या तत्र देवीं शर्वाणीं
शरणमुपगतोऽसौ मय्यभावं मुमुक्षुः ।
प्रकटितनिजमूर्तिः सापि तस्मै शशंस
स्वयममरससृष्ट्यां धारणां देहमुक्त्यै ॥१४०॥
दग्ध्वा शरीरमथ धारण्या तया तद्-
दिव्यां गतिं वररुचिः स निजां प्रपेदे ।
विन्ध्याटवीभुवि ततः स च काणभूति-
रासीदभीप्सितगुणाढ्यसमागमोत्कः ॥१४१॥
इति महाकविश्रीमत्सोमदेवभट्टविरचिते कथासरित्सागरे कथापीठलम्बके
पञ्चमस्तरङ्गः ।