काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 83, कुल 828 में से
संदर्भ में पढ़ें६६ ॥ काशिका ॥ १ । ४ ॥
प्राध्वं बन्धने ॥ ७८ ॥
कृञीति वर्तते । प्राध्वमिति मकारान्तमव्ययमानुकूल्ये वर्तते, तदानु-
कूल्यं बन्धनहेतुकं यदा भवति, तदा प्राध्वंशब्दः कृञि नित्यं गतिसंज्ञो
भवति । प्राध्वंकृत्य । बन्धन इति किम् । प्राध्वं कृत्वा शकटं गतः ॥
जीविकोपनिषदावौपम्ये ॥ ७९ ॥
कृञीति वर्तते । जीविका उपनिषदित्येतौ शब्दौ चौपम्ये विषये कृञि
गतिसंज्ञौ भवतः । जीविकाकृत्य । उपनिषत्कृत्य । औपम्य इति किम् । जीविकां
कृत्वा गतः ॥
ते प्राग्धातोः ॥ ८० ॥
ते गत्युपसर्गसंज्ञकाः धातोः प्राक् प्रयोक्तव्याः । तथा चैवोदाहृताः ।
तेप्राग्वचनमुपसर्गार्थम् । गतयो ह्यनन्तराः ॥
छन्दसि परे ऽपि ॥ ८१ ॥
प्राक् प्रयोगे प्राप्ते छन्दसि परेऽप्यनुज्ञायन्ते । छन्दसि विषये गत्युप-
सर्गसंज्ञकाः परेऽपि पूर्वेऽपि प्रयोक्तव्याः । न च परेषां प्रयुज्यमानानां संज्ञाकार्ये
किं चिदस्ति । केवलं परप्रयोगेऽपि क्रियायोग एवामस्तीति ज्ञाप्यते । याति त्रि
हस्तिना । हन्ति नि मुष्टिना । निहन्ति मुष्टिना ॥
व्यवहिताश्च ॥ ८२ ॥
व्यवहिताश्च गत्युपसर्गसंज्ञकाः छन्दसि दृश्यन्ते । आ मन्द्रैरिन्द्र हरि-
भिर्याहि मयूररोमभिः । आयाहि ॥
कर्मप्रवचनीयाः ॥ ८३ ॥
कर्मप्रवचनीया इत्याधिकारो वेदितव्यः । यानित ऊर्ध्वमनुक्रमिष्यामः
कर्मप्रवचनीयसंज्ञास्ते वेदितव्याः । यदधिकोरीश्वर इति यावद्वक्ष्यति । कर्मप्रवच-
नीयप्रदेशाः कर्मप्रवचनीययुक्ते द्वितीयेत्येवमादयः ॥
अनुर्लक्षणे ॥ ८४ ॥
अनुशब्दो लक्षणे द्योत्ये कर्मप्रवचनीयसंज्ञो भवति । शाकल्यस्य संहिता-
मनु प्रावर्षत् । अनुवृक्षमन्वसिञ्चत् । अगस्त्यमन्वसिञ्चन्नापः । किमर्थमि-
दमुच्यते । यावता लक्षणेत्थंभूताख्यानेति सिद्धैवानोः कर्मप्रवचनीयसंज्ञा ।
हेत्वर्थे तु वचनं हेतुतृतीयां बाधित्वा द्वितीयेव यथा स्यात् ॥
तृतीयार्थे ॥ ८५ ॥
अनुशब्दस्तृतीयार्थे द्योत्ये कर्मप्रवचनीयसंज्ञो भवति । नदीमन्ववसिता
सेना । पर्वतमन्ववसिता सेना । पर्वतेन संबद्धेत्यर्थः ॥