सामग्री पर जाएँ
सर्वकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 804, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 804

॥ काशिका ॥ ८ ॥ ३ ॥ ८०३
आनुश्वोऽपत्यं आनुषेयः शुभ्रादित्वाड्ढक् । ढे लोपे कद्र्वा इत्युवर्णलोपः । यच्चर
इति किम् । निस्तः । विस्तः । प्रादुस्तः ॥
सुविनिर्दुर्भ्यः सुपिसूतिसमाः ॥ ८८ ॥
सु वि निर् दुर् इत्येतेभ्य उत्तरस्य सुपि सूति सम इत्येतेषां सकारस्य
मूर्द्धन्यादेशो भवति । सुपीति स्वपिः कृतसंप्रसारणो गृह्यते । सुषुप्तः । निःषुप्तः ।
दुःषुप्तः । सूतिरिति स्वरूपग्रहणम् । षुषूतिः । विषूतिः । निःषूतिः । दुःषूतिः ।
सम । सुषमम् । विषमम् । निःषमम् । दुःषमम् ।
सुपेः षत्वं स्वपेर्मा भूद्विसुषुवापेति केन न ।
हलादिशेषात् सुपिरिष्टं पूर्वं प्रसारणम् ॥
स्थादीनां नियमे नाच प्राक्सितादुत्तरः सुपिः ।
अनर्थके विषूषू