काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
DevanagariHindipublished828 पृष्ठ
पृष्ठ 802, कुल 828 में से
संदर्भ में पढ़ेंपृष्ठ 802
॥ काशिका ॥ ८ ॥ ३ ॥ ८०१
स्फरतिस्फुलत्योर्निर्निविभ्यः ॥ ७६ ॥
स्फुरतिस्फुलत्योः सकारस्य निस् नि वि इत्येतेभ्य उत्तरस्य वा मूर्द्धन्या-
देशो भवति । स्फुरति । निष्प्फुरति । निस्स्फुरति । निस्फुरति । निष्फुरति ।
विस्फुरति । विष्फुरति । स्फुलति । निष्प्फुलति । निस्स्फुलति । निस्फुलति ।
निष्फुलति । विस्फुलति । विष्फुलति ॥
वेः स्कभ्नातेर्नित्यम् ॥ ७७ ॥
वेरुत्तरस्य स्कभ्नातेः सकारस्य नित्यं मूर्द्धन्यादेशो भवति । विष्कभ्नाति ।
विष्कम्भिता । विष्कम्भितुम् । विष्कम्भितव्यम् ॥
इणः षीध्वंलुङ्लिटां धोऽङ्गात् ॥ ७८ ॥
मूर्द्धन्य इति वर्तते । इणन्तादङ्गात्परेषां षीध्वंलुङ्लिटां यो धकारस्तस्य
मूर्द्धन्यादेशो भव