सामग्री पर जाएँ
सर्वकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 76, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 76

॥ काशिका ॥ १ ॥ ४ ॥ ६९
अभिनिविशश्च ॥ ४७ ॥
अभिनिपूर्वस्य विशतेराधारो यस्तत्कारकं कर्मसंज्ञं भवति । ग्राममभि-
निविशते । कथं कल्याणे ऽभिनिवेशः, पापेभिनिवेशः, याया संज्ञायास्मिन्यस्मिन्
संज्ञिन्यभिनिविशतइति । अन्यतरस्यामिति वर्तते परिक्रयणे संप्रदानमन्यतर-
स्यामित्यतः । सा च व्यवस्थितविभाषा विज्ञायते ॥
उपान्वध्याङ्ग्वसः ॥ ४८ ॥
उप अनु अधि आङ् इत्येवंपूर्वस्य वसतेराधारो यस्तत्कारकं कर्मसंज्ञं
भवति । ग्राममुपवसति सेना । पर्वतमुपवसति । ग्राममनुवसति । ग्राममधि-
सति । ग्राममावसति ॥ वसेरश्यर्थस्य प्रतिषेधो वक्तव्यः ॥ * ॥ ग्रामे उपवसति ।
भोजननिवृत्तिं करोतीत्यर्थः ॥
कर्तुरीप्सिततमं कर्म ॥ ४९ ॥
कर्तुः क्रियया यदाप्तुमिष्टतमं तत्कारकं कर्मसंज्ञं भवति । कटं करोति ।
ग्रामं गच्छति । कर्तुरिति किम् । माषेष्वश्वं बध्नाति । कर्मण ईप्सिता माषा न
कर्तुः । तमब्ग्रहणं किम् । पयसौदनं भुङ्क्ते । कर्मेत्यनुवर्तमाने पुनः कर्मग्रहण-
माधारनिवृत्त्यर्थम् । इतरथा ऽऽधारस्यैव हि स्यात् । गेहं प्रविशतीति ।
ओदनं पचति सक्तून्पिबतीत्यादिषु न स्यात् । पुनः कर्मग्रहणात् सर्वत्र सिद्धं
भवति । कर्मप्रदेशाः कर्मणि द्वितीयेत्येवमादयः ॥
तथायुक्तं चानीप्सितम् ॥ ५० ॥
येन प्रकारेण कर्तुरीप्सिततमं क्रियया युज्यते तेनैव चेत्प्रकारेण यदनी-
प्सितं युक्तं भवति तस्य कर्मसंज्ञा विधीयते । ईप्सितादन्यत्सर्वमभीप्सितं द्वेष्य-
मितरच्च । विषं भक्षयति । चौरान्पश्यति । ग्रामं गच्छन् वृक्षमूलान्युपसर्पति ॥
अकथितं च ॥ ५१ ॥
अकथितं च यत्कारकं तत्कर्मसंज्ञं भवति । केनाकथित,मपादानादि-
विशेषकथाभिः । परिगणनं कर्तव्यम् ।
दुहियाचिरुधिप्रच्छिभिक्षिविचामुपयोगनिमित्तमपूर्वविधौ ।
ब्रुविशासिगुणेन च यत्सचते तदकीर्तितमाचरितं कविना ॥
उपयुज्यतइत्युपयोगः, पयः प्रभृति, तस्य निमित्तं गवादि, तस्योपयु-
ज्यमानपयःप्रभृतिनिमित्तस्य गवादेः कर्मसंज्ञा विधीयते । पाणिना कांस्यपात्र्यां
गां दोग्धि पयः । पात्रादिकमप्युपयोगनिमित्तं तस्य कस्मान्न भवति । नैत-
दस्ति । विहिता हि तत्र करणादिसंज्ञा । तदर्थमाह । अपूर्वविधाविति ।
ब्रुविशासिगुणेन च यत्सचते । ब्रुविशास्योर्गुणः साधनं प्रधानं कर्म यत्रोद्दिष्टं